SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् १११ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥ ४ ॥ परद्रव्यहरणप्रसक्तमतिः भवतीति हिंसादिषु पञ्चस्वास्रवेष्विहामुत्र चापायदर्शनमवद्यदर्शनं च भावयेत् । तद्यथा हिंसायास्तावत् हिंस्रो हि नित्योद्वेजनीयो नित्यानुबद्धवैरश्च । इहैव वधबन्धपरिक्लेशादीन्प्रतिलभते प्रेत्य चाशुभां गतिम् गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । तथानृतवादी अश्रद्धेयो भवति । इहैव जिह्वाछेदादीन्प्रतिलभते । मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यस्तदधिकान्दुःखहेतून्प्राप्नोति प्रेत्य चाशुभां गतिम्, गर्हितश्च भवतीत्यनृतवचनाद्व्यपरमः श्रेयान् ॥ तथा स्तेनः सर्वस्योद्वेजनीयो I इहैव चाभिघातवधबन्धनहस्तपादकर्णनासोत्तरौष्ठच्छेदनभेदनसर्वस्वहरणवध्ययातनमारणादीन् प्रतिलभते प्रेत्य चाशुभां गतिम् गर्हितश्च भवतीति स्तेयाद् व्युपरमः श्रेयान् ॥ तथाऽब्रह्मचारी विभ्रमोद्भ्रान्तचित्तः विप्रकीर्णेन्द्रियो मदान्धो गज इव निरङ्कुशः शर्म नो लभते । मोहाभिभूतश्च कार्याकार्यानभिज्ञो न किंचिदकुशलं नारभते । परदाराभिगमनकृतांश्च इहैव वैरानुबन्धलिङ्गच्छेदनवधबन्धनद्रव्यापहारादीन्प्रतिलभतेऽपायान्प्रेत्य चाशुभां गतिम् गर्हितश्च भवतीत्यब्रह्मणो व्युपरमः श्रेयानिति 11 तथा परिग्रहवान् शकुनिरिव मांसपेशीहस्तोऽन्येषां क्रव्यादशकुनानामिहैव तस्करादीनां गम्यो भवति ।। अर्जनरक्षणक्षयकृतांश्च दोषान्प्राप्नोति । न चास्य तृप्तिर्भवतीन्धनैरिवाग्नेः, लोभाभिभूतत्वाच्च कार्याकार्यानपेक्षो भवति । प्रेत्य चाशुभां गतिं प्राप्नोति, लुब्धोऽयमिति च गर्हितो भवतीति परिग्रहाद्व्युपरमः श्रेयान् ॥ ४ ॥ किं चान्यत् - दुःखमेव वा ॥ ५ ॥ दुःखमेव वा हिंसादिषु भावयेत् ॥ यथा ममाप्रियं दुःखमेवं सर्वसत्त्वानामिति हिंसाया व्युपरमः श्रेयान् ॥ यथा मम मिथ्याभ्याख्यानेनाभ्याख्यातस्य तीव्रं दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति अनृतवचनाद्व्युपरमः श्रेयान् ।। यथा ममेष्टद्रव्यवियोगे दुःखं भूतपूर्वं भवति च तथा सर्वसत्त्वानामिति स्तेयाद्व्युपरमः श्रेयान् ॥ तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेव । स्यादेतत्, स्पर्शनसुखमिति । तच्च न । कुतः । व्याधिप्रतीकारत्वात् कण्डूपरिगतवच्चाब्रह्मव्याधिप्रतीकारत्वात् । असुखे ह्यस्मिन्सुखाभिमानो मूढस्य । तद्यथा तीव्रया त्वक्छोणितमांसानुगतया कण्ड्वा
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy