________________
११२
७-७
परिगतात्मा काष्ठशकललोष्टशर्करानखशुक्तिभिर्विच्छिन्नगात्रो रुधिराः कण्डूयमानो दुःखमेव सुखमिति मन्यते । तद्वन्मैथुनोपसेवीति मैथुनाद्व्युपरमः श्रेयान् ॥ तथा परिग्रहवानप्राप्तप्राप्तनष्टेषु काङ्कारक्षणशोकोद्भवं दुःखमेव प्राप्नोतीति परिग्रहाद्व्युपरमः श्रेयान् । इत्येवं भावयतो व्रतिनो व्रते स्थैर्यं भवति ॥ ५ ॥
किं चान्यत्मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ६ ॥
भावयेद् यथासङ्खयम् । मैत्री सर्वसत्त्वेषु । क्षमेऽहं सर्वसत्त्वानाम् । क्षमयेऽहं सर्वसत्त्वान् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ।। प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवा' दवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकम्पा दीनानुग्रह इत्यर्थः । तन्महामोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् । तथा हि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति । माध्यस्थ्यमविनेयेषु । माध्यस्थ्यमौदासीन्य मुपेक्षेत्यनर्थान्तरम् । अविनेया नाम मृत्पिण्डकाष्टकुड्यभूता ग्रहणधारणविज्ञानोहापोहवियुक्ता महामोहाभिभूता दुष्टावग्राहिताश्च । तेषु माध्यस्थ्यं भावयेत् । न हि तत्र वक्तुर्हितोपदेशसाफल्यं भवति ॥ ६॥ किं चान्यत् ॥
जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥ ७ ॥ • जगत्कायस्वभावी च भावयेत् संवेगवैराग्यार्थम् । तत्र जगत्स्वभावो द्रव्याणामनाद्यादिमत्परिणामयुक्ताः प्रादुर्भावतिरोभावस्थित्यन्य तानुग्रहविनाशाः । कायस्वभावोऽनित्यता दुःखहेतुत्वं निःसारताऽशुचित्वमिति ॥ एवं ह्यस्य भावयतः
१. वर्णवादः श्लाघा । २. तबः तृपिपासेति । स एवाग्निः परितापकारित्वात् । ३. मोमुहाः-खलाः। ४. वृद्धाः-सप्ततिसंवत्सरसंख्यामतीत्य वर्तमानाः । परिग्लानेन्द्रियाः परिपेलवस्मृतयः । ५. औदासीन्यम् । ६ अन्यता - भेदपरिणामः ।