________________
अथ सप्तमोऽध्यायः । अत्राह । उक्तं भवता सद्वेद्यस्यास्रवेषु भूतव्रत्यनुकम्पेति । तत्र किं व्रतं को वा व्रतीति । अत्रोच्यते -
'हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १ ॥
हिंसाया अनृतवचनात्स्तेयादब्रह्मतः परिग्रहाच्च कायवाङ्मनोभिर्विरतिव्रतम् । विरति म ज्ञात्वाऽभ्युपेत्याकरणम् । अकरणं निवृत्तिरुपरमो विरतिरित्यनान्तरम् ॥ १ ॥
देशसर्वतोऽणुमहती ॥ २ ॥ एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति ॥ २ ॥
तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ तस्य पञ्चविधस्य व्रतस्य स्थैर्यार्थमेकैकस्य पञ्च पञ्च भावना भवन्ति । तद्यथा-अहिंसायास्तावदीर्यासमितिर्मनो गुप्तिरेषणासमितिरादाननिक्षेपणासमितिरालोकितपानभोजनमिति । सत्यवचनस्यानुवीचिभाषणं क्रोधप्रत्याख्यानं लोभप्रत्याख्यानमभीरुत्वं
हास्यप्रत्याख्यानमिति अस्तेयस्यानुवीच्यवग्रहयाचनमभीक्ष्णावग्रहयाचनमेतावदित्यवग्रहावधारणं समानधार्मिकेभ्योऽवग्रहयाचनमनुज्ञापितपानभोजनमिति ॥ ब्रह्मचर्यस्य स्त्रीपशुषण्डकसंसक्तशयनासनवर्जनं रागसंयुक्तस्त्रीकथावर्जनं स्त्रीणां मनोहरेन्द्रियालोकनवर्जनं पूर्वरतानुस्मरणवर्जनं प्रणीतरसभोजनवर्जनमिति ॥ आकिञ्चन्यस्य पञ्चानामिन्द्रियार्थानां स्पर्शरसगन्धवर्णशब्दानां मनोज्ञानां प्राप्तौ गाध्यवर्जनममनोज्ञानां प्राप्तौ द्वेषवर्जनमिति ॥ ३ ॥
किं चान्यदिति ।
१. अ. ७ सू. ८, ९, १०, ११, १२ २. अ. ९ सू. ५. ३. अ. ९ सू. ४. ४. आलोचनपूर्वकं भाषणम् । ५. अ. ८ सू. १०. ६. आलोच्यावग्रहो याचनीयः ।