________________
तत्त्वार्थाधिगमसूत्रम्
१०९
तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य' ॥ २५ ॥ उत्तरस्येति सूत्रक्रमप्रामाण्यादुच्चैर्गोत्रस्याह । नीचैर्गोत्रास्रवविपर्ययो नीचैर्वृत्तिरनुत्सेकश्चोच्चैर्गोत्रस्यास्रवा भवन्ति ॥ २५ ॥
विघ्नकरणमन्तरायस्य ॥ २६ ॥ दानादीनां विघ्नकरणमन्तरायस्यास्रवो भवतीति । एते साम्परायिकस्याष्टविधस्य पृथक् पृथगास्रवविशेषा भवन्तीति ।। २६ ॥
इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते
षष्ठोऽध्यायः समाप्तः ॥ ६ ॥
१. अ. ८ सू. १४.