________________
१०८
स'माधिवैयावृत्य करणमर्हदाचार्यबहुश्रुतप्रवच'नभक्तिरावश्यकापरिहा णिर्गि प्र भावना प्रवचनवत्सलत्वमितितीर्थकृत्त्वस्य ॥ २३ ॥
परमप्रकृष्टा दर्शनविशुद्धिः । विनयसंपन्नता च । शीलव्रतेष्वात्यन्तिको भृशमप्रमादोऽनतिचारः । अभीक्ष्णं ज्ञानोपयोगः । संवेगश्च । यथाशक्तितस्त्यागस्तपश्च । सङ्घस्य साधूनां च समाधिवैयावृत्यकरणम् । अर्हत्स्वाचार्येषु बहुश्रुतेषु प्रवचने च परमभावविशुद्धियुक्ता भक्तिः । सामायिकादीनामावश्यकानां भावतोऽनुष्ठानस्यापरिहाणिः । सम्यग्दर्शनादेर्मोक्षमार्गस्य निहत्य मानं करणोपदेशाभ्यां प्रभावना । अर्हच्छासनानुष्ठायिनां श्रुतधराणां बालवृद्धतपस्विशैक्षग्लानादीनां च सङ्ग्रहोपग्रहानुग्रहकारित्वं प्रवचनवत्सलत्वमिति । एते गुणाः समस्ता व्यस्ता वा तीर्थकरनाम्न आस्रवा भवन्तीति ॥ २३ ॥ पराऽऽत्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २४ ॥
परनिन्दात्मप्रशंसा सद्गुणाच्छादनमसद्गुणोद्भावनं चात्मपरोभयस्थं नीचैर्गोत्रस्यास्रवा भवन्ति ॥ २४ ॥
१. सम्यग्ज्ञानादीनामाधारस्य साध्यादिरूपसङ्घस्योपद्रवाभावोत्पादनरूपत्वं समाधेर्लक्षणम् । २. अ. ९ सू. २४. ३. सङ्घस्य समाधिकरणं, साधो]यावृत्यकरणं, अथवोभयोः समाधिवैयावृत्यकरणं,
अहंदाचार्यबहुश्रुतप्रवचनेषु यथासम्भवमाशयशुद्धिपूर्वकानुरागरूपत्वं भक्तेर्लक्षणम् । ४. सकलसावद्यविरतिरूपसामायिकाद्यावश्यकानां
श्यतया कर्तव्यानुष्ठानरूपत्वं, षडावश्यकानां (सामायिक-चतुर्विशतिस्तववन्दनक-प्रतिक्रमण कायोत्सर्ग-प्रत्याख्यानानि षडावश्यकानि) यथाकालकरणरूपत्वं वा
आवश्यकापरिहाणेर्लक्षणम् । ५. सम्यग्दर्शनादिमार्गस्य मानं परित्यज्य करणाकरणोपदेशद्वारा प्रकाशनं मार्गप्रभावनाया
लक्षणम् । ६. अर्हच्छासनानुष्ठायिनां श्रुतधरबालवृद्धतपस्विशैक्षकग्लानादीनां संयमानुष्ठानश्रुताध्ययनाद्यर्थं
वस्त्रपात्रभक्तपानादिप्रदानं, द्रव्यभावतः साधर्मिकस्नेहकरणरूपत्वं वा प्रवचनवात्सल्यस्य
लक्षणम् । एते कुर्वाणो जीवस्तीर्थकरनामकर्म बध्नाति । ७. अ. ८ सू. १२. ८. १/२ अ. ८ सू. १३.