________________
१०७
तत्त्वार्थाधिगमसूत्रम्
अथ दैवस्यायुषः क् आस्रव इति । अत्रोच्यते
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ।२०। संयमो विरतिव्रतमित्यनान्तरम् । '"हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम्' इति वक्ष्यते ॥ संयमासंयमो देशविरतिरणुव्रतमित्यनान्तरम् । 'देशसर्वतोऽणुमहती'२ इत्यपि वक्ष्यते ॥ अकामनिर्जरा पराधीनतयानुरोधाच्चाकुशलनिवृत्तिराहारादिनिरोधश्च ॥ बालतपः । बालो मूढ इत्यनर्थान्तरम् । तस्य तपो बालतपः । तच्चाग्निप्रवेशमरुत्प्रपातजलप्रवेशादि । तदेवं सरागसंयमः संयमासंयमादीनि च दैवस्यायुष आस्रवा भवन्तीति ॥ २० ॥ अथ नाम्नः क आस्रव इति । अत्रोच्यते
योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ॥ कायवाङ्मनोयोगवक्रता विसंवादनं चाशुभस्य नाम्न आस्रवो भवतीति ॥२१॥
विपरीतं शुभस्य ॥ २२ ॥ एतदुभयं विपरीतं शुभस्य नाम्न आस्रवो भवतीति ।। २२ ॥ किं चान्यत्
दर्शनविशुद्धिविनयसंपन'ता "शीलव्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतप"सी
सङ्घसाधु
१. अ. ७ सू. १. २. अ. ७ सू. २. ३. अ. ८ सू. १२. ४. अ. ८ सू. १२. ५. जिनोक्ततत्त्वविषयकसम्यग्दर्शने निःशङ्कितत्वाधष्टाङ्गसेवनरूपत्वं दर्शनविशुद्धेर्लक्षणम् । ६. सम्यग्ज्ञानादौ तद्वत्सु चादरकरणरूपत्वे सति माननिवृत्तिकरणरूपत्वं विनयसम्पन्नताया
लक्षणम् । ७. उत्सर्गापवादात्मकसर्वज्ञप्रणीतसिद्धान्तानुसारितया शीलव्रतविषयकानुष्ठानकरणरूपत्वं __शीलविषयकानतिचारस्य लक्षणम् । ८. प्रतिक्षणं वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशैरभ्यसनकरणरूपत्वं ज्ञानोपयोगस्य लक्षणम् । ९. जन्मजरामरणादिक्लेशरूपसंसारात् प्रतिक्षणं भयपरिणामरूपत्वं संवेगस्य लक्षणम् । १०. विधिपूर्वकसुपात्रप्रदानरूपत्वं त्यागस्य लक्षणम् । ११. कर्मतापनरूपत्वं तपसो लक्षणम् ।