SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ ६-१९ सर्वभूतानुकम्पा 'अगारिष्वनगारिषु च .. व्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमोऽकामनिर्जरा बालतपोयोगः शान्तिः शौचमिति सद्वेद्यस्यास्रवा भवन्ति ॥ १३ ॥ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १४ ॥ भगवतां परमर्षीणां केवलिनामर्ह प्रोक्तस्य च साङ्गोपाङ्गस्य श्रुतस्य चातुर्वर्णस्य सङ्घस्य पञ्चमहाव्रतसाधनस्य धर्मस्य चतुर्विधानां च देवानामवर्णवादो दर्शनमोहस्यास्रवा इति ।। १४ ॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्य ॥ १५ ॥ कषायोदयात्तीव्रात्मपरिणामश्चारित्रमोहस्यास्रवो भवति ॥ १५ ॥ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥ बह्वारम्भता बहुपरिग्रहता च नारकस्यायुष आस्रवो भवति ॥ १६ ॥ माया तैर्यग्योनस्य ॥ १७ ॥ माया तैर्यग्योनस्यायुष आस्रवो भवति ।। १७॥ ... अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥ १८ ॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवंच मानुषस्यायुष आस्रवो भवति ॥१८॥ निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥ निशीलव्रतत्वं च सर्वेषां नारकतैर्यग्योनमानुषाणामायुषामास्रवो भवति । यथोक्तानि च ॥ १९॥ १. अ. ७ सू. १३. २. अ. ७ सू. ३३. ३. अ. ६ सू. २०. ४. अ. ८ सू. १०. ५. साधुसाध्वीश्रावकश्राविकाः । ६. अ. ७ सू. १. ७. अ. ४ सू. ११, १२, १३, २०. ८. अ. ८ सू. १०. ९. अ. ८ सू. ११. १०. अ. ६ सू. १६, १७, १८. । सर्वेषामिति शेषः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy