________________
१०५
तत्त्वार्थाधिगमसूत्रम्
अत्राह । उक्तं भवता सकषायाकषाययोर्योगः साम्परायिकेर्यापथयोरास्रव' इति । साम्परायिकं चाष्टविधं वक्ष्यते । तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित् प्रतिविशेषोऽस्तीति । अत्रोच्यते । सत्यपि योगत्वाविशेषे प्रकृति प्राप्यास्रवविशेषो भवति ।
तद्यथातत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ ११ ॥
आस्रवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानां च प्रदोषो 'निह्नवो मात्सर्यमन्त राय "आसादन उपघात इति ज्ञानावरणास्रवा भवन्ति । एतैर्हि १°ज्ञानावरणं कर्म बध्यते ॥ "एवमेव दर्शनावरणस्येति ॥ ११ ॥ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसवेद्यस्य ॥ १२ ॥
दुःखं शोकस्ताप आक्रन्दनं वधः परिदेवनमित्यात्मसंस्थानि परस्य क्रियमाणान्युभयोश्च क्रियमाणान्यसद्वेद्यस्यास्रवा भवन्तीति ।। १२ ।। भूतव्रत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्धेद्यस्य ॥१३॥
१. अ. ६ सू. ५. २. अ. ६ सू. २६. ३. अ. ८ सू. ७, ८. ४. ज्ञानिसाध्वादीनां ज्ञानसाधकपुस्तकादीनां च प्रत्यनीकत्वेनानिष्टाचरणरूपत्वं
ज्ञानज्ञानिविषयकान्तरिकाप्रीतिकरणरूपत्वं वा प्रदोषस्य लक्षणम् । ५. न मया तत्समीपेऽधीतमित्यपलापकरणरूपत्वं निह्नवस्य लक्षणम् । ६. दानाहेऽपि ज्ञाने कुतश्चित्कारणादयोग्यतापादनरूपत्वं मात्सर्यस्य लक्षणम् । ७. ज्ञानाध्ययनादीनां व्यवच्छेदकरणरूपत्वमन्तरायस्य लक्षणम् । ८. मनोवाग्भ्यां ज्ञानस्य वर्जनरूपत्वमासादनस्य लक्षणम् । ९. प्रशस्तज्ञानादीनां दोषोद्भावनरूपत्वमुपघातस्य लक्षणम् । ९. अ. ८ सू. ७. १०. एवमुक्तेन प्रकारेण दर्शनस्य दर्शनवतां दर्शनसाधनानां च प्रदोषादय आलस्यादयश्च
दर्शनावरणस्यास्रवा भवन्ति । ११. अ. ८ सू. ८. १२. अ. ८ सू. ९. १३. अ. ७ सू. १५.