SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ -- ६-७ परिताप'नप्राणातिपाताःदर्शनस्पर्शनप्रत्यय समन्तानुपा तानाभोगा: “स्वहस्त निसर्गविदारणान"यनावकाङ्क्षा आरम्भ'३परिग्रह "माया "मिथ्यादर्शनाप्र त्याख्यानक्रिया इति ॥ ६॥ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरणविशेषेभ्यस्तद्विशेषः ॥ ७ ॥ सांपरायिकास्रवाणां एषामेकोनचत्वारिंशत्साम्परायिकाणां तीव्रभावात् मन्दभावाज्ज्ञातभावादज्ञातभावाद्वीर्यविशेषादधिकरणविशेषाच्च विशेषो भवति । लघुर्लघुतरो लघुतमस्तीव्रस्तीव्रतरस्तीव्रतम इति । तद्विशेषाच्च बन्धविशेषो भवति ।। ७ ॥ १. दुःखोत्पादनरूपत्वं परितापन्याः क्रियाया लक्षणम् । २. प्रमत्तयोगायाणातिपातरूपत्वं प्राणातिपातक्रियाया लक्षणम् । ३. अश्वादिचित्रकर्मक्रियादर्शनार्थं गमनरूपत्वं दार्टिक्याः क्रियाया लक्षणम् । ४. रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्ययिकक्रियाया लक्षणम् । ५. जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् । ६. हर्षवशादश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् । ७. अदृष्टवाऽप्रमृज्य च भूमौ वस्त्रपात्राद्यादाननिक्षेपादिरूपत्वं अथवा उपयोगराहित्येन क्रियायां प्रवृत्तिकरणरूपत्वं अनाभोगिकक्रियाया लक्षणम् । ८. स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम् । ९. यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्करणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम्, अथवा पापादानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् । १०. अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् । ११. आनयनं समुद्दिश्य स्वपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् । १२. जिनोक्तकर्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकासक्रियाया लक्षणम् । १३. छेदनभेदनताडनतर्जनादिकर्मविषयकप्रवृत्तिकरणरूपत्वमारम्भक्रियाया लक्षणम् । १४. सचित्तादिद्रव्येषु ममेति ममत्वकरणरूपत्वं परिग्रहक्रियाया लक्षणम् । १५. दाम्भिकवृत्तितया मनोवाक्कायानां प्रवृत्ती प्रेरकत्वं मायाप्रत्ययिकक्रियाया लक्षणम् । १६. चारित्रमोहनीयोदये सति सावधयोगादिषु प्रवृत्तिरूपत्वमप्रत्याख्यानक्रियाया लक्षणम् । १७. प्रकृष्टकर्मबन्धजघन्यकर्मबन्धरूपपरिणामतारतम्योपयोगानुपयोगपूर्वकप्राणातिपातादिप्रवृत्ति पराक्रमवीर्याविशेषशस्त्रावधिकरणविशेषैः सांपरायिकास्रवेषु विशेषो द्रष्टव्यः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy