________________
तत्त्वार्थाधिगमसूत्रम्
१०१
अशुभः पापस्य ॥ ४ ॥ तत्र सद्वेद्यादि पुण्यं 'वक्ष्यते । शेषं पापमिति ।। ४ ॥
सकषायाकषाययोः साम्परायिके-पथयोः ॥ ५ ॥ स एष त्रिविधोऽपि योगः सकषायाकषाययोः साम्परायिकेर्यापथयोरास्रवो भवति, यथासङ्ख्यं यथासम्भवं च सकषायस्य योगः साम्परायिकस्य । अकषायस्येर्यापथस्यैवैकसमयस्थितेः ।। ५ ।। अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ६ ॥
'पूर्वस्येति सूत्रक्रमप्रामाण्यात्साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥ पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा'५ इत्येवमादयो वक्ष्यन्ते । चत्वारः क्रोधमानमायालोभा अनन्तानुबन्ध्यादयो वक्ष्यन्ते । पञ्च प्रमत्तस्येन्द्रियाणि । पञ्चविंशतिः क्रियाः । तत्रेमे क्रियाप्रत्यया यथासंख्यं प्रत्येतव्याः । तद्यथासम्यक्त्वमिथ्यात्व' प्रयोगसमादानेपथाः १३कायाधिकरणप्रदोष५. १. अ. ८ सू. २६. २. सकाषायिकत्रिविधयोगकृतकर्मागमनरूपत्वं सांपरायिकास्रवस्य लक्षणम् । अथवा
संसारपरिभ्रान्तिकारणकत्वे सति यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वम् । ३. अकषायकृतत्वैकसमयस्थितिकत्वयोः
सतोर्यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वं-ऐर्यापथिकास्रवस्य लक्षणम् । ४. अ. ६ सू. ५. ५. अ. ७ सू. ८. ६. अ. ८ सू. १०. ७. अ. २ सू. २०. ८. जिनसिद्धगुर्वादीनां । पूजानमस्कारवस्त्रपात्रादिप्रदानरूपवैयावृत्याभिव्यङ्गयत्वे सति
सम्यक्त्वप्रवर्धकत्वं सम्यक्त्वक्रियाया लक्षणम् । ९. तद्विपरीतप्रवृत्तिरूपत्वं मिथ्याक्रियालक्षणम् । १०. गमनागमनादिचेष्टाविषयकप्रवृत्तिनिमित्तकत्वं प्रयोगक्रियाया लक्षणम् । ११. योगत्रयकृतपुद्गलादानरूपत्वम् । समादानक्रियाया लक्षणम् अथवा
योगनिवृत्तिसमर्थपुद्गलग्रहणरूपत्वं तत्र धावनवल्गनादिरूपः कायव्यापारः ।
परुषानृतादिरूपो वाग्व्यापारः । अभिद्रोहादिरूपो मनोव्यापारः । १२. ईयापथकर्मकारणरूपत्वमीर्यापथिकक्रियाया लक्षणम् । १३. कायचेष्टाविशेषरूपत्वं कायिकक्रियाया लक्षणम् । १४. खड्गादिनिर्वर्तनरूपत्वमधिकरणक्रियाया लक्षणम् । १५. मात्सर्यकरणरूपत्वं प्राद्वेषिकक्रियाया लक्षणम् ।
36