________________
अथ षष्ठोऽध्यायः । अत्राह । उक्ता जीवाजीवाः । अथास्रवः क इत्यास्रवप्रसिद्ध्यर्थमिदं प्रक्रम्यते
कायवाङ्मनःकर्म योगः ॥ १ ॥ कायिकं कर्म वाचिकं कर्म मानसं कर्म इत्येष त्रिविधो योगो भवति । कायास प्रदेशपरिणामो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुद्गलात्सप्रदेशपरिणामो वाग्योगः । मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः । स 'एकशो द्विविधः । शुभश्चाशुभश्च । तत्राशुभो हिंसास्तेया ब्रह्मादीनि कायिकः । सावधानृतपरुषपिशुनादीनि वाचिकः । अभिध्या व्यापादेया सूया दीनि मानसः ॥ अतो विपरीतः शुभ इति ॥ १॥
स आस्रवः ॥ २ ॥ स एष त्रिविधोऽपि योग आस्रवसंज्ञो भवति । शुभाशुभयोः कर्मणोरास्रवणादास्रवः । सरःसलिलावाहिनिर्वाहिस्रोतोवत् ।।२।।
शुभः पुण्यस्य ॥ ३ ॥ .. शुभो योगः पुण्यस्यास्रवो भवति ।। ३ ॥ १. एकशः-प्रत्येकम् । २. अब्रह्म-मैथुनम् । ३. आदिशब्दाद् दहनछेदनालेखनहास्यधावनप्रभृतिकर्मविशेषाः कायिको योगः । ४. आदिशब्दादसत्यछलशठदंभादि । ५. सत्त्वेष्वभिद्रोहानुध्यानं-अभिध्या । ६. व्यापादः-स्वोपायोच्छादनारंभः । ७. ईर्ष्या-अक्षमा । ८. असूया-क्रोधविशेषः। ९. आदिग्रहणाद् अभिमानहर्षशोकदैन्यादि । १०. अहिंसास्तेयब्रह्मचर्यादिकाययोगः । असावद्यादिवचनमागमविहितभाषणं च वाचिकयोगः ।
__ अनभिध्यादिधर्मशुक्लध्यानध्यायितेति मनोयोगः । ११. आस्रवति प्रविशति कर्म येन आत्मनीति आस्रवः कर्मबन्धहेतुरिति भावः । १२ यथा तटाके स्रोतसां सलिलावाहनिर्वाहाभ्यां न कदाचिच्चिन्त्यमाना रिक्तता भवति __ एवमात्मनि कर्मदृष्टान्तयोजना । अतएव निरुद्धसलिलागमद्वारस्य तडागस्य रिक्तिः
सुश्रद्धेया तथा संवृतकर्मणो जीवस्य ।