SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् द्रव्याश्रया निर्गुणा' गुणाः ॥४०॥ द्रव्यमेषामाश्रय इति द्रव्याश्रयाः । नैषां गुणाः सन्तीति निर्गुणाः ।। ४० ।। अत्राह । उक्तं भवता ‘बन्धे समाधिकौ पारिणामिकौ' इति । तत्र कः परिणाम इति । अत्रोच्यते तद्भावः परिणामः ॥४१॥ धर्मादीनां द्रव्याणां यथोक्तानां च गुणानां स्वभावः स्वतत्त्वं परिणामः ॥४१॥ स द्विविधः - अनादिरादिमांश्च ॥ ४२ ॥ तत्रानादिररूपिषु धर्माधर्माकाशजीवेष्विति ।। ४२ ।। रूपिष्वादिमान् ॥ ४३ ॥ रूपिषु तु द्रव्येषुआदिमान् । परिणामोऽनेकविधः स्पर्शपरिणामादिरिति ॥४३ ।। __ योगोपयोगी जीवेषु ॥ ४४ ॥ जीवेष्वरूपिष्वपि सत्सु योगोपयोगौ ३परिणामावादिमन्तौ भवतः । तत्रोपयोगः पूर्वोक्तः । योगस्तु परस्ताद्वक्ष्यते ॥ ४४ ॥ इति तत्त्वार्थाधिगमे स्वोपज्ञभाष्यसमेते पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ १. सन्ति गुणाः किंतु द्रव्यादव्यतिरिच्यमानस्वरूपाः । तद्यथा द्रव्यं शुक्लाकारेण परिणतं भवति तदा कृष्णाकारपरिणामो नास्तीति स्फुटं निर्गुणत्वमिति ।। २. अ. ५ सू. ३६. ३. अ. ५ सू. ४२. ४. अ. २ सू. १९. ५. अ. ६ सू. १.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy