________________
५-३९ बन्धे समाधिको पारिणामिकौ ॥ ३६ ॥ 'बन्धे सति समगुणस्य समगुणः परिणामको भवति । अधिकगुणो हीनस्येति ॥ ३६॥
अत्राह । उक्तं भवता 'द्रव्याणि जीवाश्च' इति । तत्किमद्देशत एव द्रव्याणां प्रसिद्धिराहोस्विल्लक्षणतोऽपीति । अत्रोच्यते । लक्षणतोऽपि प्रसिद्धिः । तदुच्यते -
गुणपर्यायवद्रव्यम् ॥ ३७ ॥ गुणान् लक्षणतो वक्ष्यामः । 'भावान्तरं संज्ञान्तरं च पर्यायः । तदुभयं यत्र विद्यते तद्रव्यम् । गुणपर्याया अस्य सन्त्यस्मिन्वा सन्तीति गुणपर्यायवत् ।। ३७ ॥
कालश्चेत्येके ॥ ३८ ॥ एके त्वाचार्या व्याचक्षते-कालोऽपि द्रव्यमिति ।। ३८ ॥
सोऽनन्तसमयः ॥ ३९ ॥ स चैष कालोऽनन्तसमयः । तत्रैक एव वर्तमानसमयः । अतीतानागतयोस्त्वानन्त्यम् ॥ ३९ ॥
अत्राह । उक्तं भवता ‘गुणपर्यायवद्रव्यम्" इति । तत्र के गुणा इति । अत्रोच्यते
१. बन्धः-संयोगः । २. अ. ५ सू. २. ३. अव्याप्त्यतिव्याप्त्यसम्भवदूषणत्रयरहितधर्मो लक्षणम् । ४. अ. ५ सू. ४०. ५. भावादन्यो भावान्तरम् । समभिरूढनयाभिप्रायेणेन्दनशकनपूर्दारणादयोऽर्थविशेषा
रूपादयश्च भावान्तरा भावभेदाः संज्ञान्तराणां प्रवृत्ती निमित्तभूताः । संज्ञान्तरं
चेन्द्रशक्रपुरन्दररूपादि। ६. दिगम्बराः 'कालश्च' इति तत्त्वार्थ (५-३९) सूत्रेण व्याचक्षते । ७. एकस्य नयस्य भेदलक्षणस्य प्रतिपत्तारः तदुपयोगानन्यत्वादेके
अनपेक्षितद्रव्यास्तिकनयदर्शनाः कालश्च द्रव्यान्तरं भवतीत्याचक्षते । ८. अत्र टिप्पणकग्रन्थे दिगम्बराणां खण्डनम् । ९. अ. ५ सू. ३७.