________________
९७
तत्त्वार्थाधिगमसूत्रम्
न जघन्यगुणानाम् ॥ ३३ ॥ जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवतीति ॥ ३३ ॥
अत्राह । उक्तं भवता जघन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति । अत्रोच्यते । न जघन्यगुणानामित्यधिकृत्येदमुच्यते
गुणसाम्ये सदृशानाम् ॥ ३४ ॥ गुणसाम्ये सति सदृशानां बन्धो न भवति । तद्यथा-तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति ।
अत्राह । सदृशग्रहणं किमपेक्षत इति । अत्रोच्यते । गुणवैषम्ये सदृशानां बन्धो भवतीति ।। ३४ ॥
अत्राह । किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति । अत्रोच्यते ।
- द्व्यधिकादिगुणानां तु ॥ ३५ ॥ द्व्यधिकादिगुणानां तु सदृशानां बन्धो भवति । तद्यथा स्निग्धस्य द्विगुणाद्यधिकस्निग्धेन । द्विगुणाद्यधिकस्निग्धस्य स्निग्धेन । रूक्षस्यापि द्विगुणाद्यधिकरूक्षेण । द्विगुणाद्यधिकरूक्षस्य रूक्षेण । एकादिगुणाधिकयोस्तु सदृशयोर्बन्धो न भवति । अत्र तुशब्दो व्यावृत्तिविशेषणार्थः प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ॥
__ अत्राह । परमाणुषु स्कन्धेषु च ये स्पर्शादयो गुणास्ते किं व्यवस्थितास्तेष्वाहोस्विदव्यवस्थिता इति । अत्रोच्यते । अव्यवस्थिताः । कुतः । परिणामात् ॥ ३५ ॥ ____ अत्राह । द्वयोरपि बध्यमानयोर्गुणवत्त्वे सति कथं परिणामो भवतीति उच्यते१. अ. ५ सू. ३२. २. द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते व्यधिकादिगुणाः ।
गुणशब्दोऽत्र गुणिवचनः । गुणवन्तो गुणाः परमाणव इत्यर्थः ।