SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०३ तत्त्वार्थाधिगमसूत्रम् ___अत्राह । तीव्रमन्दादयो भावा लोकप्रतीताः । वीर्यं च जीवस्य क्षायोपशमिकः क्षायिको वा 'भाव इत्युक्तम् । अथाधिकरणं किमिति अत्रोच्यते अधिकरणं जीवाजीवाः ॥ ८ ॥ अधिकरणं द्विविधम् । द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि । शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ॥ ८ ॥ तत्र आयं संरम्भसमारम्भारम्भयोगकृतकारितानुमत कषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ९ ॥ आद्यमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । तत्समासतस्त्रिविधम् । संरम्भः समारम्भ आरम्भ इति । एतत्पुनरेकशः कायवाङ्मनोयोगविशेषात्रिविधं भवति । तद्यथा-कायसंरम्भः वाक्संरम्भः मनःसंरम्भः, कायसमारम्भः वाक्समारम्भः मनःसमारम्भः, कायारम्भः वागारम्भः मनआरम्भ इति ॥ एतदप्येकशः कृतकारितानुमतविशेषात्रिविधं भवति । तद्यथा-कृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः, कृतवाक्संरम्भः कारितवाक्संरम्भः अनुमतवाक्संरम्भः, कृतमनःसंरम्भः कारितमनःसंरम्भः अनुमतमनःसंरम्भः । एवं समारम्भारम्भावपि ॥ तदपि पुनरेकशः कषायविशेषाच्चतुर्विधम् । तद्यथा-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः, लोभकारितकायसंरम्भः, क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः १. अ. २ सू. ४, ५. ९ २. छेदनदहनमारणोपघातस्नेहक्षाराम्लानुपयुक्तमनोवाक्कायलक्षणाधिकरणभेदात् । छेदनादीनि प्रसिद्धानि । अनुपयुक्तः सन्मनोवाकायादिना यां यां चेष्टां निवर्तयति तया तया कर्म बध्यत इत्येवंरूपत्वमनुपयुक्तमनोवाक्कायलक्षणाधिकरणस्य लक्षणम् । ३. भावः तीव्रादिरूपात्मपरिणामः स एवाधिकरणं भावाधिकरणम् । अ. ६ सू. ९. ४. प्राणातिपातादिविषयकसंकल्पावेशरूपत्वं संरंभस्य लक्षणम् । ५. प्राणातिपातादिविषयकसाधनसंनिपातजनितपरितापनादिरूपत्वं समारंभस्य लक्षणम् । । ६. प्राणातिपातादिरूपक्रियानिवृत्तिरूपत्वमारंभस्य लक्षणम् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy