________________
-
५-२५
बन्धस्त्रिविधः । प्रयोगबन्धो' विस्रसाबन्धा मिश्र' इति । स्निग्धरूक्षत्वाद्भवतीति वक्ष्यते ॥ सौक्ष्म्यं द्विविधमन्त्यमापेक्षिकं च । अन्त्यं परमाणुष्वेव । आपेक्षिकं द्व्यणुकादिषु संघातपरिणामापेक्षं भवति । तद्यथा-आमलकाद्बदरमिति ॥ स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं च । संघातपरिणामापेक्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिकं बदरादिभ्य आमलकादिष्विति ॥ संस्थानमनेकविधम् । दीर्घ-हस्वाद्यनित्थंत्वपर्यन्तम् । भेदः पञ्चविधः । ६औत्कारिकः चौर्णिकः खण्डः प्रतर अनुतट' इति । तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्तीत्यतः पुद्गलास्तद्वन्तः ॥
__ अत्राह । किमर्थं स्पर्शादीनां शब्दादीनां च पृथक् सूत्रकरणमिति । अत्रोच्यते । स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्तीति । शब्दादयस्तु स्कन्धेष्वेव भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् ।।२४।। त एते पुद्गलाः समासतो द्विविधा भवन्ति । तद्यथा
११अणवः स्कन्धाश्च२ ॥ २५ ॥ उक्तं च - १. प्रयोगो जीवव्यापारः । तेन घटितो बन्धः प्रायोगिकः औदारिकादिशरीरजतुकाष्ठादिविषयः । २. विस्रसा स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः । स द्विधा आदिमदनादिमभेदात् । तत्र
आदिमान् विद्युदादिर्विषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः । अनादिरपि
धर्माधर्माकाशविषयः । ३. प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तंभकुम्भादि । ४. अ. ५ सू. ३२. ५. वृत्तादिना निस्पयितुं यन्न शक्यं तदनित्थम् । तद्भावोऽनित्थन्त्वम् । तत्पर्यन्तमनेकधा
संस्थानम् । ६. समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः औत्कारिकः । ७. अवयवशश्चूर्णनं चौर्णिकः । क्षिप्तपिष्टमुष्टिवत् । ८. खण्डशो विशरणं खण्डभेदः । क्षिप्तमृत्पिण्डवत् । ९. अभ्रपटलभूर्जपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः प्रतरभेदः । १०. वंशेक्षुयष्टित्वगुत्पाटनम्-अनुतटः ।। ११. अण्यन्त इत्यणवः । अस्मदादीन्द्रियव्यापारातीतत्वात् । केवलसंशब्दनसमधिगम्याः
सौक्ष्म्यात् । १२. स्थौल्याद् ग्रहणादानादिव्यापारसमर्थाः प्रायः स्कन्धाः संघाताः ।