________________
तत्त्वार्थाधिगमसूत्रम्
'तन्त्रान्तरीया जीवान्परिभाषन्ते । स्पर्शादिरहिताश्चान्ये । तत्कथमेतदिति । अत्रोच्यते । एतदादिविप्रतिपत्तिप्रतिषेधार्थं विशेषवचनविवक्षया चेदमुच्यते ॥
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पर्शः रसः गन्धः वर्ण इत्येवंलक्षणाः पुद्गला भवन्ति । तत्र स्पर्शोऽष्टविधः कठिनो मुदुर्गुरुर्लघुः शीत उष्णः स्निग्धः रूक्ष इति । रसः पञ्चविधस्तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो द्विविधः सुरभिरसुरभिश्च । वर्णः पञ्चविधः कृष्णो नीलो लोहितः पीतः शुक्ल इति ॥२३॥
किं चान्यत्शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥ २४ ॥
तत्र शब्दः षड्विधः - ततो विततो घनः शुषिरो घर्षो भाष इति । १. अत्र प्रस्तावे परोऽभिधत्ते-प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार
इति । तन्त्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्यनेन शब्देन जीवान् परिभाषन्ते पुद्गलशब्दं जीवेषु सङ्केतयन्ति व्यवहारसिद्ध्यर्थमिति । ननु च तेषां जीव एव नास्ति, कथं तद्विषयं पुद्गलध्वनि परिभाषेरान्निति ? उच्यते-अस्त्यार्यसम्मतीयानां आत्मा, सौत्रान्तिकानां तु चित्ततधुक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः, चित्तसन्ततौ वेदनासंज्ञा चेतनादिधर्मयुक्तायां चक्षुरादिसहितायां च चित्तेनान्योन्यानुविधानात्, इत्येषा चित्ततधुक्तानां धर्माणां सन्ततिरहङ्कारवस्तुत्वादात्मेत्युपचर्यते । तथा पुनः पुनर्गत्यादानात् पुद्गल इत्युपचर्यते, योगाचाराणां तु विज्ञानपरिणामः पुद्गलः । यथाह'आत्मधर्मोपचारो हि विविधो यः प्रवर्तते । विज्ञानपरिणामोऽसौ परिणामः स च त्रिधा' । एवं तन्त्रान्तरीयैः पुद्गलो जीव उक्तः, त्वया पुनः शरीराधुपकारिणः पुद्गला इत्युच्यते तदेतत्कथं विप्रतिषिद्धत्वात् इति प्रश्नयति ।। नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव- 'रूपिणः पुद्गलाः' (अ. ५ सू. ४.) इति न च रूप्यात्मा प्रतीत इति, उच्यते-रूपशब्देन तत्र मूर्तिरुक्ता, सा च मूर्तिरन्यैरसर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः तच्च स्पर्शादिरहितं, एतनिरासार्थं इदमवश्यं वक्तव्यम् भवति सूत्रं-स्पर्शादियुक्ता मूर्तिः, तथा चतुस्त्रिद्व्येकगुणानि पृथिव्यादीनि कणभुजोक्तानि तत्प्रतिषेधार्थं चावश्यंतया विधेयं
सर्वाण्येतानि चतुर्गुणानीति । २. ततो मृदङ्गपटहादिसमुद्भवः । ३. विततो वीणात्रिसरिकादितन्त्रीप्रभवः । ४. घनः कांस्यभाजनकाष्ठशलाकादिजनितः । ५. शुषिरो वेणुकम्बुवंशविवरायुद्भवः । ६. घर्षः ऋकचकाष्ठादिसंघर्षप्रसूतः । ----- ७. भाषा-व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति ।