________________
तत्त्वार्थाधिगमसूत्रम्
“कारणमेव तदन्त्यं सूक्ष्मो 'नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च" ।। इति ।। तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एव ।। २५ ।। अत्राह । कथं पुनरेतद्वविध्यं भवतीति । अत्रोच्यते । स्कन्धास्तावत्
संघातभेदेभ्य उत्पद्यन्ते ॥ २६ ॥ संघाताद्भेदात्संघातभेदादिति । एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशादयः । तद्यथा-द्वयोः परमाण्वोः संघाताद्विप्रदेशः । द्विप्रदेशस्याणोश्च संघातातत्रिप्रदेशः । एवं संख्येयानामसंख्येयानामनन्तानामनन्तानन्तानां च प्रदेशानां संघातात्तावप्रदेशाः ॥ एषामेव भेदात् द्विप्रदेशपर्यन्ताः ॥ एत एव संघातभेदाभ्यामेकसामयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अन्यस्य संघातेनान्य तो भेदेनेति ॥ २६ ॥ अत्राह । अथ परमाणुः कथमुत्पद्यत इति अत्रोच्यते
. भेदादणुः ॥ २७ ॥ भेदादेव परमाणुरुत्पद्यते, न संघातादिति ॥ २७ ॥
भेदसंघाताभ्यां चाक्षुषाः ॥ २८ ॥ भेदसंघाताभ्यां चाक्षुषाः स्कन्धा उत्पद्यन्ते । अचाक्षुषास्तु यथोक्तासंघाताद्भेदात्संघातभेदाच्चेति ।। २८॥
अत्राह । धर्मादीनि सन्तीति कथं गृह्यत इति । अत्रोच्यते । लक्षणतः । किं च सतो लक्षणमिति । अत्रोच्यते -
उत्पादव्ययध्रौव्ययुक्तं सत् ॥ २९ ॥ उत्पादव्ययौ ध्रौव्यं च युक्तं सतो लक्षणम् । यदुत्पद्यते, यद्व्येति, यच्च ध्रुवं तत्सत् । अतोऽन्यदसदिति ॥ २९ ॥
१. द्रव्यास्तिकनयाऽपेक्षयानुज्झितमूर्तिः । पर्यायापेक्षया तु नीलादिभिराकारैरनित्य एव । २. समये भवः सामयिकः । एकशब्दः समानार्थाभिधायी । समानः समयो ययोः ___संघातभेदयोस्ताभ्यामेककालाभ्यामिति यावत् । ३. अन्यस्य = परमाणोः । ४ अन्यतः = स्कन्धात् ।