________________
८
५-१६
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ १३ ॥
एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अप्रदेशसंख्येयासंख्येयानन्तप्रदेशानां पुद्गलानामेकादिष्वाकाशप्रदेशेषु भाज्योऽवगाहः । भाज्यो विभाज्यो विकल्प इत्यनर्थान्तरम् । तद्यथा-परमाणोरेकस्मिन्नेव प्रदेशे । द्व्यणुकस्यैकस्मिन् द्वयोश्च । त्र्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च । एवं चतुरणुकादीनां संख्येयासंख्येयप्रदेशस्यैकादिषु संख्येयेष्वसंख्येयेषु च । अनन्तप्रदेशस्य च ॥ १४ ॥
असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ लोकाकाशप्रदेशानामसंख्येयभागादिषु जीवानामवगाहो भवति । आसर्वलोकादिति ।। १५॥ अत्राह । को हेतुरसंख्येयभागादिषु जीवानामवगाहो भवतीति । अत्रोच्यते
प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥ जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव । तद्यथातैलवर्त्यग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशाला प्रकाशयति, अण्वीमपि, माणिकावृतः माणिकां, द्रोणावृतो द्रोणम्, आढकावृतश्चाढकं, प्रस्थावृतः प्रस्थं, पाण्यावृतो 'पाणिमिति । एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविधं शरीरस्कन्धं धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायं व्याप्नोतीति, अवगाहत इत्यर्थः । धर्माधर्माकाशजीवानां परस्परेण पुद्गलेषु च वृत्तिन विरुध्यते, अमूर्तत्वात् ॥
अत्राह । सति प्रदेशसंहारविसर्गसंभवे कस्मादसंख्येयभागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति । अत्रोच्यते । सयोगत्वात्संसारिणां चरमशरीरत्रिभागहीनावगाहित्वाच्च सिद्धानामिति ।। १६॥
अत्राह । उक्तं भवता धर्मादीनस्तिकायान् परस्ताल्लक्षणतो "वक्ष्याम इति । तत्किमेषां लक्षणमिति । अत्रोच्यते - १. अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः । २. सिद्धमिदम् । जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृह्णाति । ३. सह योगेन वर्तत इति सयोगः । कार्मणशरीरीति यावत् । ४. अ. ५ सू. १ भाष्ये ।
om x