________________
तत्त्वार्थाधिगमसूत्रम्
गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ॥ १७ ॥ गतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो यथासंख्यम् । उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनन्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनान्तरम् ॥ १७॥
आकाशस्यावगाहः ॥ १८ ॥ अवगाहिनां धर्माधर्मपुद्गलजीवानामवगाह आकाशस्योपकारः । धर्माधर्मयोरन्तःप्रवेशसंभवेन पुद्गलजीवानां संयोगविभागैश्चेति ॥१८॥
शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ पञ्चविधानि शरीराण्यादौरिकादीनि वाङ्मनःप्राणापानाविति' पुद्गलानामुपकारः । तत्र शरीराणि यथोक्तानि । प्राणापानौ च नामकर्मणि व्याख्यातौ । द्वीन्द्रियादयो जिह्वेन्द्रिययोगाद्भाषात्वेन गृह्णन्ति नान्ये । संज्ञिनश्च मनस्त्वेन गृह्णन्ति नान्य इति । वक्ष्यते हि ‘सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्त' इति ॥१९॥ किं चान्यत्-.
सुखदुःखजीवितमरणोपग्रहाश्च ।। २० ॥ सुखोपग्रहो दुःखोपग्रहो जीवितोपग्रहो मरणोपग्रहश्चेति पुद्गलानामुपकारः । तद्यथा-इष्टाः स्पर्शरसगन्धवर्णशब्दाः सुखस्योपकारः । अनिष्टा दुःखस्य । स्नानाच्छादनानुलेपनभोजनादीनि विधिप्रयुक्तानि जीवितस्यानपवर्तनं चायुष्कस्य । विषशस्त्राग्न्यादीनि मरणस्यापवर्तनं चायुष्कस्य ।। १. इतिशब्दश्चार्थे । २. अ. २ सू. ३७. ३. अ. ८ सू. १२ भाष्ये । ४. अ. ८ सू. २. ५. बाह्यद्रव्यसम्बन्धापेक्षसद्वेद्योदयात्संसार्यात्मनः प्रसादपरिणामः सुखम् ।
इष्टदारापत्यस्रगनुलेपनानपानादिद्रव्योपजनितमिति विस्तरः । तदेव च सुखमुपग्रहोऽनुग्रहः पुद्गलानां निमित्ततया परिणतावासनः । एवं दुःखादिष्वपि योजनीयम् । असāद्योदयादात्मपरिणामो बाह्यद्रव्यापेक्षः संक्लेशप्रायो दुःखम् । भवस्थितिनिमित्तायुर्द्रव्यसम्बन्धभाजः पुरुषस्य प्राणापानलक्षणक्रियाविशेषाद् व्युपरमो जीवितम् । तदशेषोपरतिर्मरणम् । कथं मरणमात्मोपग्रह इति चेत्, निर्विण्णस्य पुरुषस्य तप्रियत्वात् विषादिद्रव्यसम्बन्धे सत्यायुषो यौगपद्येनोपभोगोदयात् ।