________________
८७
तत्त्वार्थाधिगमसूत्रम्
निष्क्रियाणि च ॥६॥ आ आकाशादेव धर्मादीनि निष्क्रियाणि भवन्ति । पुद्गलजीवास्तु क्रियावन्तः । क्रियेति गतिकर्माह ।। ६॥
अत्राह । उक्तं भवता प्रदेशावयवबहुत्वं कायसंज्ञमिति' । तस्मात्क एषां धर्मादीनां प्रदेशावयवनियम इति । अत्रोच्यते । सर्वेषां प्रदेशाः सन्त्यन्यत्र परमाणोः । अवयवास्तु स्कन्धानामेव । वक्ष्यते हि “अणवः स्कन्धाश्च" “संघातभेदेभ्यः उत्पद्यन्ते" इति ॥
असंख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥ प्रदेशो नामापेक्षिकः सर्वसूक्ष्मस्तु परमाणोरवगाह इति ।।७।।
जीवस्य च ॥ ८॥ एकजीवस्य चासंख्येयाः प्रदेशा भवन्तीति ।।८।।
आकाशस्यानन्ताः ॥ ९ ॥ लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य तु धर्माधर्मेकजीवैस्तुल्याः ॥९॥
संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १० ॥ सङ्खयेया असङ्खयेया अनन्ताश्च पुद्गलानां प्रदेशा भवन्ति । अनन्ता इति वर्तते ।। १०॥
नाणोः ॥ ११ ॥ अणोः प्रदेशा न भवन्ति । अनादिरमध्योऽप्रदेशो हि परमाणुः ।। ११ ॥
लोकाकाशेऽवगाहः ॥ १२ ॥ अवगाहिनामवगाहो' लोकाकाशे भवति ॥ १२ ॥ परमाणुप्रभृतीन्यनन्ताणुकस्कन्धावसानानि
क्षितिजलज्वलनानिलतरुद्वित्रिचतुष्पञ्चेन्द्रियात्मानश्चेति भावनीयम् । १. अ. ५ सू. १ भाष्ये । २. अ. ५ सू. २५. ३. अ. ५ सू. २६. ४. अवगाहः-प्रवेशः, अवस्थानं वा । .
م