________________
ललितविस्तरा-सटीका 'वैद्यविशेषपरिज्ञानादिति' अर्थादवशिष्टाशेषपदार्थविषयकपरिज्ञानरूपवैद्यविशेषतः, अनाभोगनामकः साध्यव्याधिरवश्यमेव पलायते.॥ अथ व्याख्यानस्य पञ्चमं कारणरूपमङगं स्थैर्य विश्लेषयति-: - यथा जिज्ञासादीनि चत्वार्यङगानि व्याख्यानस्य सन्ति तथा पञ्चममङ्गं स्थैर्यनामकमस्ति-: तथा स्वयं -शानद्वर्यनुत्सेकः, तवज्ञानुपहसनं, विवावपरित्यागः, अज्ञबुद्धिभेदाकारणं, प्रज्ञापनीये नियोगः, संयमपात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः स्वाश्रयो भावसम्पदामिति,
पं०...तदज्ञानुपसहनमिति' स्वयंज्ञातज्ञ यानभिज्ञानुपहसनं 'विवादपरित्यागः' तदनभिज्ञ : सहेति गम्यते 'अजबुद्धिभेदाकरणमिति' सम्यक्चैत्यवंदनाद्यजानतां तत्राप्रवृत्तिपरिणामानापादनं 'प्रज्ञापनीये नियोग' इति प्रज्ञापनीयमेव सम्यक्करणे नियुक्त इति,
टी०...(५) = (१) ज्ञानरूपसमृद्धि-सम्पत्तेगौरव-अभिमानाभावः, (२) तदज्ञानुपहसनं = स्वतो ज्ञाता ये ज्ञेयाः पदास्तानजानत:-तदनभिज्ञान् प्रति हसनाभावः, . (३) विवादपरित्यागः = तत्तत्पदार्थाऽनभिज्ञैः सह विवादस्य परितस्त्यागः (लब्ध्याद्यार्थिना तु स्याद् दुःस्थितेन महात्मना, छलजाति-प्रधानो यः स विवादः स्मृतः) (४) अज्ञबुद्धिभेदाऽकरणमिति = अज्ञानिनां जनानां क्रियायां बुद्धे भेंद:-पृथक् करणं वर्जनीयं, अज्ञविज्ञयो मंध्ये बुद्धे र्यदन्तरं-भेदोऽज्ञानिनामग्रे न कर्तव्यः (५) प्रज्ञापनीये नियोगः = प्रज्ञापनाया योग्य-पात्ररूपशिष्यं प्रति शास्त्राऽभ्यासविषये विधि-प्रेरणा योजनादिकं कर्तव्यं, यतः सद्गुरुः पात्रशिष्यमेव सम्यक्रियायां नियुक्ते इति, (६) संयमपात्रता नाम बहुमता गुणज्ञानां विग्रहवती शमश्रीः = संयमपात्रताया एषोऽर्थो भवति यथा मूर्तिमती शान्तरससरसोपशमलक्ष्मीः, गुणज्ञानां बहुमानविषया, संयमपात्रता कथ्यते, सा स्थैर्येण प्राप्यते इति. (७) स्वाश्रयो भावसम्पदामिति = एतत्स्थैर्य, भावरूपसम्पदाक्षायोपशमिकादिभावनामकसम्पत्तीनां स्वगृहं कथ्यते. अथ व्याख्यानस्य षष्ठमङगभूतकारणं उक्तक्रियेति नामकं कथ्यते-: तथोक्तस्य-विज्ञातस्य ततत्कालयोगिनः, तदासेवनसमये तथोपयोगपूर्व शक्तितस्तथाक्रिया, नौषधज्ञानमात्रादारोग्यं क्रियोपयोग्येव तत्, न चेयं यादृच्छिको शस्ता, प्रत्यपायसम्भवादिति,
पं०...'उक्तस्येत्यादि' उक्तस्य-वचनादिष्टस्य चैत्यवंदनादे:, तदेव विशिष्टि 'विज्ञातस्य' बच