________________
मलितविस्तरा-सटीका
नानुसारेणेव विनिश्चितविषयविभागस्य 'तत्तत्कालयोगिनः तेन तेन-चिवरूपेण कालेन तदवसरलक्षणेन सम्बन्धबतः, इत्यमुक्तं विशेषणं, क्रियां विशेषयन्नाह'तदासेवनसमये' तस्योक्तस्य करणकाले, 'तथोपयोगपूर्व' भासेव्यमानानुरूप उपयोगः पूर्वो-हेतुन तयया भवति, 'शक्तितः' स्वशक्तिमपेक्ष्य तदनतिक्रमेणापि 'तथाकिया' उक्तानुरूपप्रकारवान् व्यापारः, आह-किमुक्तक्रियया ? व्याख्यानफलभूताद् उक्तज्ञानादेवेष्टफलसिद्धिसम्भवादित्याशङक्याह-'न' नवौषधज्ञानमात्रात्-क्रियारहितादीषधज्ञानात् केवलाद् भारोग्यं-रोगाभावः, कुत इत्याह-'क्रियोपयोग्येव तद्' यतः क्रियायां-चिकित्सालक्षणायामुपयुज्यते उपकुरुते, तच्छीलं च यतथा, नारोग्योपयोगावदपीत्येवकारार्थः, तद्-इत्यौषधज्ञानमावं, क्रियाया एवारोग्योपयोगात् । तहि क्रियेवोपादेया न ज्ञानमित्याशङ्कयाह---'न चेयमित्यादि' नच-नैव इयं वंदनादिक्रिया यादृशी तादृशी यथा तथा कृता शस्ता-इष्टसाधिका मता, किन्तु ? ज्ञानपूनिकैब सस्ता भवतीति ।।
टी०...(६)नानाप्रकारावच्छिन्नेन चैत्यवंदनाद्यवसरलक्षणकालेन सम्बन्धवतः, वचनानुसारेणैव विनिश्चितविभागस्य, पूर्वोक्तविशेषणविशिष्टस्य, उक्तस्य-वचनादिच्छाविषयभूतस्य चैत्यवंदनादिरूपविशेषस्य, तस्योक्तरूपचैत्यवंदनादेः करणकाले, आराध्यमानानुरूपोपयोगरूपहेतुजन्यः, शक्तिमपेक्ष्य-शक्तिमनतिक्रम्य, वचनानुकूल-चैत्यवंदनादिप्रकारभेदवान्-क्रियाव्यापारः 'उक्तक्रिया' ननु व्याख्यानफलभूतस्योक्तस्य-वचनादिष्टस्य चैत्यवंदनादे निादेवेष्टफलसिद्धिरिति चेत्, 'नौषधज्ञानमात्रात्' (क्रियावियुतज्ञानस्यानुपादेयत्वात्) नवौषधज्ञानमात्रात्-क्रियारहितादौषधज्ञानात् केवलादारोग्यं-रोगाभावः, केवल क्रियाऽभावपूर्वकोषविषयकज्ञानजन्यो रोगाभावो न परन्तु रोगसद्भाव एव, यतो व्याधिप्रतिकारचिकित्सालक्षण-क्रिया प्रति, उपयोग-उपकारकारकं, औषधज्ञानमात्र नारोग्योपयोगवदपीत्येवकारार्थः, आरोग्यं प्रति निरुक्त-क्रियाया एवोपयोगो भवति. क्रियां प्रति औषधज्ञानमात्रमुपयोगि भवति.. अर्थादौषधज्ञानपूर्वकनिरुक्तक्रियोभयत आरोग्यफलं भवति. . ननु तहि क्रियेवोपादेयाऽस्तु न ज्ञानमुपादेयमिति चेत्, नैवेयं, चैत्यवंदनादिसकला क्रिया यादृच्छिकी (स्वमतिप्रवृत्ते भवाङगत्वात्) यादृशी तादृशी यथा तथा कृता शस्ता = इष्टसाधिका मता किन्तु ? ज्ञानपूविकैव शस्ता भवतीति, अर्थाच्चैत्यवंदनादिसकलाक्रिया, वचननिरपेक्षज्ञानशून्यभावोपयोगरहिता यादृच्छिकी क्रिया, निष्फला भवति, यतो नरकादिदुर्गतिरूपप्रत्यपायकारिका भवतीति. . या कर्मरूपरोगाणां चिकित्सा, सर्वज्ञरूपभाववैद्यस्य शालारूपजनशासने भूतकालेऽभूत, भवति च भविष्यति, वस्तुतस्तु ते पुण्यवन्तोऽभूवन्, भवन्ति च भविष्यन्ति. यतो वीतरागवचनाज्ञां ज्ञात्वाप्रतिपद्य, क्रियायां मुक्त्वा कर्मरोगरहितत्वरूपारोग्यवन्तोऽभूवन्, भवन्ति, भविष्यन्ति च, येषां भगवदाज्ञाज्ञानमस्ति, परन्तु आज्ञाभ्यासरूपाराधना नास्ति तेषां कथं कमरोगान्-मुक्तिर्भवेत् ? मात्र
45