________________
ललितविस्तरा-सटीका (अवमामा, सम्यग्ज्ञानवान्, तादृशसम्यक्रियावत्त्वात्, सत्येव सम्यग्ज्ञानवत्त्वे सम्यनिवारक स्योपपत्तेः, असति सम्यग्ज्ञानवत्त्वे सम्यक्रियावत्त्वस्यानुपपत्तेः निश्चिताऽन्यथानुपपत्तिलक्षणो हेतुः, सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः; असति साध्ये हेतोरनुपपत्तिरेवान्यथाऽनुपपत्तिः). अथ व्याख्यानस्य चतुर्थमङगरूपं कारणं बोधपरिणतिनामकं व्याख्याति-:".. तथा बोधपरिणतिः-सम्यग् शालस्थिरता, रहिता कुतर्कयोमेष, संवृतत्वाधाराप्तिकल्पा मुक्ता मार्गामुसारितमा, तन्त्रयुक्तिप्रधाना, स्तोकायामप्यस्यां न विपर्यवो भवति, मनाभोगमात्रं, साध्यव्याधिकल्पं तु तद्, वैद्यविशेषपरिज्ञानादिति, __.. पं०...'वैद्यविशेषपरिज्ञानादिति' वैद्यविशेष इव परिज्ञानं तस्माद् अयमन भावो-यमा वैद्यविशेषात् साध्यव्याधिनिवर्त्तते तथा परिझानादनाभोगमावमिति,
टी०...(४) यथा जिज्ञासागुरुयोगविधिपरताख्यानि व्याख्यानस्यांगानि तथा बोधपरिणति र्व्याख्यानस्यांगं कारणमस्ति, बोधपरिणति परिचाययति.
. (१) 'सम्यग्ज्ञानस्थिरता' = सम्यम्ज्ञाने स्थिरता-मनोवचःकायव्यापारगतव्याकुलताबा मभाव: (रागद्वेषाद्युपशमः, हेयोपादेयोपेक्षणीयादितत्त्वनिश्चयः) (२) 'रहिता कुतर्कयोगेन' = सा बोधपरिणतिः-कुत्सिततकरूपकुतर्कस्य (बोहरोगः शमापाय: श्रद्धाभङगोऽभिमानकृत्, कुतर्कश्चेतसो व्यक्तं भावशवरनेकधा) योगः-सम्बन्धस्तेन रहिताअभाववती.
........ . . (३) बोधपरिणतिः = 'संवृतस्त्नाधाराप्तिकल्पा' संवृत्त:-अनुद्घाटितः रलअ (नुष्ठानबुद्धिरूपरत्न) स्याधारभूतकरण्डकस्तत्प्राप्तितुल्या. यथा कश्चित् संवृतरत्नाधारकरण्डकं प्राप्तवान्, तपाऽपि तदन्तर्गतरत्नादिवस्तु, समस्तीत्यजानन्नस्ति, तदपि यदा स शास्यति तदा तत्फलं निश्चयतः तमेव प्राप्स्यति, स यदि तद्रक्षिष्यति । . (४) 'युक्ता मार्गानुसारितया' नीतिसहिता सम्यग्दर्शन ज्ञानचारित्ररूपमोक्षमार्गादिके निरतिधारप्रवृत्तिरूपमार्गानुसारितया सह ससम्बन्धा बोधपरिणतिः। (५) 'तन्त्रयुक्तिप्रधाना' तन्त्रं (शास्त्रं) च युक्तिश्च तन्त्रयुक्ती, यत्र प्रधाने सा तन्त्रयुक्तिप्रधाना बोधपरिणतिः । (६) 'स्तोकायामप्यस्यां न विपर्ययो भवति' अस्यां विशिष्टायां बोधपरिणती स्तोकायां-स्वल्पायर्या (स्वल्पपदार्थाऽवगाहित्वेन) अपि (मधिकपदार्थावगाहित्वे तु कः प्रश्नो ऽपि' शब्दार्थः) 'न विपर्ययो भवति' (विपरीतैककोटिनिष्टङकनं विपर्ययः, यथा शुक्तिकायामिदं रजतमिति. प्रत्यक्षानुमाना-.. दिविपर्ययः, मिथ्याज्ञानं विपर्ययः, विपर्ययों नाम भ्रमः) 'अनाभोगमानं' केवलशेषपदार्थविषयक-ज्ञानाभावः, 'साध्यव्याधिकल्पं' = अवशिष्टपदार्थविषयकाज्ञानं तु साध्य-नाश्यरोगसमानं वर्तते तथाऽपि वैद्यविशेषतस्सरोगो नश्यति तथा तन्नश्यत्येवेति.