________________
लचितविस्तरा-सटीका
(३) उर्जितासनक्रिया = समोच्चासनवर्जनेनोचिता-समोपयोगः, अर्थाद् गुरोः सकाशात् समोच्चासनः उपवेशनादित्यागः, गुरोः सदृशानि तथाधिक मूल्यानि वस्त्राणि त्माज्यान्यन्यथा दोषसद्भावः । (४) सर्वथा विक्षेपसंत्यागः = सर्वप्रकारेण विकथानिन्दादिरूप विक्षेपसंत्यागः, अर्थाद् राजदेशस्त्रीभोजनरूपाश्चतस्रो विकथास्त्याज्या:, यतः, अनर्थदण्डरूपास्तथा निरर्थक वार्तालापोऽपि प्रमादप्रकारत्वात्संसारवर्धकः, निरर्थकखेदजनकोऽस्ति, परपरिवादोऽपि परिहरणीयः सर्वथा ।
(५) उपयोगप्रधानतेति श्रवणविधिः = सर्वविधिषूपयोगस्य ( ज्ञानदर्शनरूपबोधव्यापाररूपस्यार्थवा प्रणिधानस्य - ध्यानस्य ) प्रधानता ज्ञेया यतस्ते विधयो भावरूपा भवन्ति, अन्यथा द्रव्यरूपाः, 'इति' तस्मात् कारणात् सूत्रार्थं तदुभयश्रवणविधी, उपयोग प्रधानता कर्तव्या.
(६) अयं - श्रवणादिविधिः कल्याणपरम्पराया- मंगलपरम्पराया हेतुरस्ति, अतो हि-विधिपरतया निश्चयेन-नियमतः सम्यग्ज्ञानं, 'ना पाय उपेयव्यभिचारी' उपायः (कार्य निष्पादकासाधारणकारणं) उपेयस्य (साध्यरूपकार्यस्य - फलस्य ) व्यभिचारी ( फले बिरोधी - अविसंवादी) न हि भवति । यदि साधनं साध्यसाधकं न भवेत्तदा फलोपधायकत्वरूपोपायता, उपाये सम्यक्तया न घटेते ति. 'तद्भावानुपपत्तेरिति ' - विधिरूपसम्यक्क्रियया सम्यग्ज्ञानसाध्यकानुमिति र्भवति, तथाहि = अयमात्मा, सम्यग्ज्ञानवान्, सम्यक्क्रियावत्त्वाद्, यत्र यत्र सम्यक्क्रिया तत्र तत्र सम्यग्ज्ञानं, यत्र यत्र
ज्ञानाभावस्तत्र तत्र सम्यक्क्रियाऽभावः इत्याकारक - नियतान्वयव्यतिरेक सहचार ज्ञानज्ञापित सम्यग् ज्ञाननिरूपिता व्याप्तिः (सद्धेतुस्वरूपस्मा) तथा च हेत्वधिकर णवृत्यत्यन्ताभावप्रतियोगिसाध्य सामानाधिकरण्यं, व्या. ल. अत्तेत्थं समन्वयः, सम्यक्क्रियाऽधिकरणे ( सम्यक्क्रियावत्यात्मनि ) वर्तमानो य उदासीनघटाद्यभावः ( सम्यग्ज्ञानभावो धत्तुं न शक्यते, तत्र सम्यग्ज्ञानस्य सत्त्वात् )
प्रतियोगी (auratवः स प्रतियोगी) उदासीनषटादि:, तदप्रतियोगि सम्यक् ज्ञानरूपसाध्यं, तत्सामानाधिकरण्यं सम्यक्क्रियारूप हेतावस्तीति लक्षणसङगतिः ( उपाय: - सम्यक्क्रियावत्त्वरूपहेतुः, न सम्यग्ज्ञानरूपसाध्यव्यभिचार ( साहचर्य - सामानाधिकरण्याभाव) वान् किन्तु साध्यसहचरः - साध्य सामानाधिकरणो हेतु:, तथा च हेतुव्यापकसाध्य सामाधिकरण्यरूपव्याप्तिस्वरूपवान् हेतु:, साध्याभाववद्वृत्तित्वरूपव्यभिचाराभावरूपव्याप्तिस्वरूपवान् हेतु र्वा । सम्यक्क्रिया निष्ठव्याप्तिज्ञानं प्रति नियतान्वयव्यतिरेकसहचार ज्ञानं कारणं, तथा व्यभिचारज्ञानाभावः कारणं, यदि व्यभिचारज्ञानरूपप्रतिबन्धकः स्यात् तर्हि सम्यक्क्रियानिष्ठहेतुस्वरूपरूपव्याप्तिज्ञानानुपपते नं चः तथाऽत्र, सम्यक्क्रियावत्यात्मनि, सम्यक्क्रियाऽस्तु, सम्यग् ज्ञानं माऽस्तु इत्यप्रयोजक शङकायाः प्रसक्तायां यदि तत्र सम्यम् ज्ञानं न स्यात् तर्हि सम्यक्क्रियाऽपि न स्यादिति तर्कः प्रयोक्तव्यः यतः कार्यकारणभावभङगप्रसङगलक्षणेन तर्केण निरुक्तव्यभिचारशङका निवर्त्तते इति न्यायमार्गः श्रयणीयः ॥
42.