________________
मलितविस्तरा-सटीका
बन्धित्वहेतुनाशकरणीयमेव विशिष्टशिष्टः, तथा मधुविष-सम्पृक्तान्नभोजनादी बलवदनिष्टानुब. न्धित्वज्ञानेन चिकीर्षा नोत्पद्यतेऽतः, प्रवृत्ति न भवति. बलवदनिष्टानुबन्धित्वज्ञानेन मधुविषसम्पन क्तान्नभोजनादिकमभक्ष्यं भवति. 'न कलज भक्षयेत्' इत्यत्र 'शूल्यं मांसं कलज' इति केचित्, विषदिग्धबाणाहतमृगमांसं कलजमित्यन्ये, पलाण्डुः (रक्तलशुनं) कलजमितिपरे, मुक्तावल्या-ननु न कलज भक्षयेदित्यन विध्यर्थे कथं नार्यान्वयः ? इष्टसाधनत्वाभावस्य कृतिसाध्यत्वाभावस्य च बोधयितुमशक्यत्वादिति चेद् न तत्र बाधादिष्टसाधनत्वं कृतिसाध्यत्वं च न विध्यर्थः किन्तु बलवदनिष्टाननुबन्धित्वमानं तदभावश्च नञा बोध्यतेऽर्थात् कलञ्जभक्षणं बलवदनिष्टाननुबन्धित्वाभाववद् बलवदनिष्टानुबन्धित्वेन कलजोऽभक्ष्यो भवति अतः कलज-भक्षण-त्यागो विधेयः, । (अगम्या-(परस्त्री-आदिरूपागम्या) गमनं नरकरूपबलवदनिष्टसाधनत्वेन निषिद्धं, नरक साधनत्वेन गम्यत्वेऽपि, अगम्या कथ्यते, ततोऽगम्यागमनं निषिद्धं, सुरापानमप्यनिष्टानुबन्धित्वेन पेयत्वेप्यपेयमुच्यतेऽर्थाद् यद्, अनिष्टानुबन्धित्वविशिष्टं तन्निषेध्यत्वेन निषिद्धं सर्वत्रेति.) अथ व्याख्यानस्य तृतीयं कारणरूपमङगं विधिपरतानामकं कथयति-: तथा विधिपरता-मण्डलिनिषद्याक्षादौ प्रयत्नो, ज्येष्ठक्रमानुपालनं, उचितासनक्रिया, सर्वथा विक्षेपसंत्यागः, उपयोगप्रधानतेति श्रवणविधिः, हेतुरयं कल्याणपरम्परायाः, अतो हि नियमतः सम्यग्ज्ञानं, ना पाय उपेयव्यभिचारी, तभावानुपपत्तेरिति,
पं०तभावानुपपत्तेरिति' उपेये व्यभिचारिण उपायस्य उपायत्वं नोपपद्यत इति भावः ।।
टी०..(३) यथा जिज्ञासागुरुयोगी व्याख्यानस्यांगभूतो तथा विधिपरतेति तृतीयमङगंकारणं व्याख्याया दर्श्यते. विधिपरता = श्रावकसाधुधर्मानुष्ठानगतसर्वविधिषु परायणता = साधुधर्मगताहारग्रहणे चारित्रगुणे स्थिरतार्थमनेकग्रन्थदर्शित-क्रियाकरणे यथाविधिकरणे सानन्दा सोत्साहा सज्जता, विधिपरतां षोढा वर्णयति-: . . (१) मण्डलि-निषद्याऽक्षादी प्रयत्नो = सूत्रतदर्थभोजनकालाऽऽवश्यकस्वाध्यायसंस्तारकाख्याः सप्तमण्डल्यस्तकाचामाम्लं कृत्वा प्रवेशः क्रियते । सभारूपोऽर्थो द्वितीयः, निषद्या-आसनमक्षः स्थापनाचार्यः, इत्यादि-विधौ प्रकर्षेण यत्नः । (सभास्थितो निषद्याद्वयविधाता) (२) ज्येष्ठक्रमानुपालनम् = ज्येष्ठानां-रत्नाधिकानां (आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकादीनां) कर्मक्षयार्थ क्रमशः कृतिकर्मादेरनुपालनम् (लघुभिज्येष्ठा वन्दनीयाः, उपस्थापनाऽनन्तरं श्रमणपर्यायो ज्ञेयः साध्वीभिः सर्व-साधवो वन्द्याः)