________________
ललितविस्तरा-सटीका
टी०...(२) यथा जिज्ञासका व्याख्यानस्य प्रथममङग-कारणमस्ति, तथा व्याख्यानस्य द्वितीयमङगं-गुरुयोगाख्यं विवेचयति = गुरुणा-यथार्थाभिधानेन (यथार्थ-वीतरागवचनानुसारित्वेना--भिधानं-कथनं यस्य स तेनाथवा यथार्थ-धर्मोपदेशकत्वेन, अज्ञानान्धकारनिवारकत्वेन गुरोर
भिधानं नाम यस्य तेन) तत्त्वनिरूपकेण न तु मूकगीतार्थेन तदाश्रितागीतार्थेन वा स्वतन्त्र .च पस्तन्त्रं वेत्तीति, स्वपरतन्त्रवित्-तेन स्वपरतन्त्रविदा, परिश्रममगणयता, परहितनिरतेन = परेषां सत्त्वानां हिते परायणेन, बालादिदशाज्ञायकेन पराशयवेदिना-परेषामभिप्राय वेत्तीति, तेन, एतादृशविप्रेषणचतुष्टयसम्पन्नेन गुरुणा सह परमशुश्रूषावद्भावेन सम्यक्-सत्यसम्पूर्ण हार्दिकसम्बन्धो गुरुयोगः कथ्यते. वस्तुतस्तु व्याख्यानरूपकार्य प्रति गुरुयोगः परमकारणमस्ति, यतो गुरुयोगस्य सत्तायां व्याख्यानसत्ताऽस्ति, यतस्तस्येष्ट फलदत्वेन व्याख्यानं सद्व्याख्यानम्, गुरुयोगस्याऽसत्त्वे, तद्व्याख्यानं व्याख्यानं न, परन्तु विपरीतव्याख्यानं यतोऽनर्थफलदम् । एवं च गुरुगुणसम्पन्नगुरुयोगरूपस्य व्याख्यांगस्य विपरीतत्वे, व्याख्याने विपरीतत्वं भवति. अर्थात् कुगुरुयोगजनितं व्याख्यानं मिथ्याव्याख्यानत्वेनाव्याख्यानमथवा तादृशगुरुयोगनिरपेक्षं स्वतंत्रं स्वमतिकल्पितं व्याख्यानमप्यव्याख्यानं यतो भाविपरिणामोऽतिदारुणो भवतीति, गुरुयोगविनाकृतं व्याख्यानमव्याख्यानं कथं ? तत्र न्यायोदृष्टान्तो दर्श्यते, न्यायः-यथा गोमांसादे: भक्ष्यत्वे (जिह वामुख-रसनेन्द्रिय-दंतादिना भक्ष्यत्वे) सति बलवदनिष्टानुबन्धित्वेन कुत्सितत्वात् (अत्रापि मोक्षमार्गबाधकत्वेन) अभक्ष्यत्वं सिद्धम्, एवमस्पर्शनीयजातिविशिष्टचण्डालादेः (अन्त्यजादेः) स्पर्शनीयत्वेऽपि-ऐहिकानर्थफलदायित्वेनास्पर्शनीयत्वम्, तथाऽत्रापि मोक्षमार्गबाधकत्वेन गुरुयोगरहितं व्याख्यानमव्याख्यानमनर्थफलत्वेन विज्ञेयमिति...... .......
(१-'मंगलं -सफलं शिष्टाचार-विषयत्वा' त्तत्र-श्येनेनाऽभिचरन् यजेतेति वेदवचनेन शत्रुनाशाय • श्येनयागो विहितः, शिष्टाचारविषयत्वं तत्राऽस्ति परन्तु सफलत्व-साध्यं नास्ति, अर्थात् सफलत्वरूप-साध्याभाववति श्येनयागे, शिष्टाचारविषयत्वरूपहेतो वृत्तित्वेन स हेतु र्व्यभिचारी कथ्यते, तद्व्यभिचारदोषनिवृत्तये हेतावविगोतत्वं निवेश्य, तताऽवि. गीतत्वं बलवदनिष्टाननुबन्धित्वम् ज्ञेयं, बलवतोऽनिष्टस्याजनकं, अविगीतत्वमित्यर्थः, अविगीतो यः शिष्टपुरुषाणामाचारस्तस्य विषयत्वं-अविगीतशिष्टाचारविषयत्वरूपो हेतुः श्येनयागे नास्ति. यः पुरुषः शत्रुहननाय श्येनयागं करोति. तस्य स शत्रुम्रियत एव परन्तु श्येनयागस्य कर्ता पुरुषः परलोके नरकगतिं याति ध्रुवं, अभिचारयागस्य कर्तुः कारयितुश्च प्रायश्चितं कत्तुं मुपदेशोऽस्ति, अतः स श्येनयागविषयक: शिष्टपुरुषाचार: बलवदनिष्टस्याऽजनको नास्ति, परन्तु नरकरूपबलवदनिष्ट्रस्य जनकोऽस्त्येव, श्येनयागे सफलत्वरूपसाध्याभावप्रयुक्ताविगीत-शिष्टाचार-विषयत्वरूपहेतोरभावोऽस्ति, अतो हेतौ व्यभिचारी नास्ति, अनेत्यं बोध्यं, वेदे श्येनयागस्य करणीयत्वेऽपि बलवदनिष्टानु
10 .