________________
ललित विस्तरा-सटीका
द्रव्य कोच रहितो भावसंकोचः, अनुत्तरदेवादेः, ग्लानादेः, उपयुक्तसम्यग्दृष्टया देस्तु सफलोऽस्ति, तथापि द्रव्यसंकोच भावसंकोचसम्पन्नस्य या विशुद्धिर्भवति सा विशुद्धिः प्रायो द्रव्यसंकोच र हितस्य केवल - भावसंकोचवतो न भवति, द्रव्यभावसंकोचरूपनमस्कारो यथाविधि - शिरोनमनादिक्रिया निष्ठो पयुक्त-सम्यग्दृष्टयादिषु घटते, शाम्बकुमार वदुभयसंकोचः श्रेष्ठपरममंगलकार्येव. 'अस्त्विति-भवतु प्रार्थनाऽर्थोऽस्येति' अस्तु भवतु इति द्वितीयपदेन विवरणं कृत्वा, क्रियापदस्यार्थः प्रार्थनाऽस्ति. ( अन विवरणादपि शक्तिग्रहः । विवरणं तु तत्समानार्थकपदान्तरेण तदर्थकथनम् । यथा घटोऽस्तीत्यस्य कलशोऽस्तीति विवरणाद् घटपदस्य कल शेशवतिग्रहस्तथा - अस्त्वित्यस्य भवतु इति विवरणात् प्रार्थनाऽथं उपलभ्यते ' अत्थुति पत्थणा' इत्याप्तवाक्यादपि प्रार्थनार्थ: । )
'ण' मिति वाक्यालङकारे, 'नमोत्थुणं' इति प्राकृतवाक्यस्थितं 'ण' मिति पदं वाक्येऽलङ्काररूपार्थं द्योतयति, किञ्चेह प्राकृतशैलीद्वारा 'ण' मिति पदस्योपन्यासः कृतः । 'अर्हद्भ्यः' इति देवादिभिरतिशयरूपपूजामर्हन्तीत्यर्हन्तस्तेभ्यो नमः शब्दयोगाच्चतुर्थी, 'सुरासुरादिभिर्निर्मिताशोकवृक्षाद्यष्टमहाप्रातिहार्यरूपां धर्मचक्राद्यतिशयस्वरूपां त्रिभुवनाऽतिशायिनीं पूजामर्हन्तीत्यर्हन्तस्तेभ्यो नमः - नमः शब्दयोगाच्चतुर्थी विभक्तिः.
('शक्तार्थवषड्- नमः स्वस्ति-स्वाहा स्वधाभिः सि. - २ - २ - ६८ एभिर्योगे नित्यं चतुर्थी) चतुर्थीविभक्त्या अर्थ उद्देश्यत्वम्, तथाचार्हदुद्देश्य नमस्कारो (पूजा) भवतु इति प्रार्थना, विधिनि• मन्त्रणा मन्त्रणाधीष्ट-संप्रश्न प्रार्थने- सि. - ५-४-२८, विध्यादिषु षट्सु सर्वप्रत्ययापवादी सप्तमी ( विध्यर्थः) पञ्चम्यौ (आज्ञार्थः) प्रार्थना - मे 'नमोऽस्त्वर्हद्भ्यः' इति बोध्यम्) अथ 'नमोस्त्वर्हद्भ्यः' इति अन पदविग्रहरूपं लक्षणं घटते वा नवेति प्रश्ने-:
पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवतीति नेहोच्यते,
* टी०... ( ४ ) ' नमोऽस्त्वर्हद्द्भ्यः' इति वाक्ये पदविग्रहरूपं व्याख्यालक्षणं नास्ति, यतः पदविग्रहस्तु तेषां पदानां भवति, यानि पदानि समासभाञ्जि भवन्ति, अत्र त्रीणि पदानि समासगतानि न सन्त्यतः पदविग्रहरूपं व्याख्यालक्षणं नास्त्येव..
चालना तु अधिकृतानुपपत्तिचोदना, यथा - अस्त्विति प्रार्थना न युज्यते तन्मात्राद्विष्टासिद्धेः,
टी०... (५) चालना = अधिकृतस्य - प्रस्तुतस्यानुपपत्तये ( अघटनाय) चोदना- प्रेरणाप्रश्न–उद्भावना ‘चालना' अर्थाद् 'आक्षेपः' कथ्यते यथा 'अस्तित्व' ति पदप्रतिपाद्योऽर्थः प्रार्थना, न युज्यते - युक्तियुक्ता न भवति यतः, तन्मात्रात् - प्रार्थनामात्रेणेष्टं फलं न सिद्धयति.. प्रत्यवस्थानं = अन प्रत्यवस्थानरूपं व्याख्यालक्षणं षष्ठं घटयति-:
37