________________
ललितविस्तरा-सटीका
'नमः' नैपातिकं (निपात-पठितं) प्रथमं पदं, 'अस्तु' इति द्वितीयं पदं कत्तुं क्रियावाचकं (आख्यातिक-क्रियापदं), 'अर्हद्भ्यः' चतुर्थी-विभक्त्यन्तं नमोयोगात्, विशेष्यवाचकं इत्यस्मिन् वाक्ये वीणि पदानि (अर्थवाचकानि, विभक्त्यन्तानि च) . अथ 'नमोऽस्त्वर्हद्भ्यः' इति वाक्येऽस्मिन् पदनयप्रतिपाद्यार्थरूपं ब्याख्यायास्तृतीयं लक्षणं घटयति-: पदार्थस्तु 'नम' इति पूजार्थ, पूजा च द्रव्यभावसङ्कोचः, तत्र करशिरः पादादिसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोग इति, अस्त्विति भवतु प्रार्थनाऽर्थोऽस्येति, णमिति वाक्यालङ्कारे, प्राकृतशैल्या इति चेहोपन्यस्तः, 'अर्हद्भ्यः' इति देवादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यो, नमः शब्दयोगाच्चतुर्थी । -
पं०...'प्राकृतशैल्येति चेहोपन्यस्त इति' प्राकृतशैल्या-प्राकृल-ग्रन्थस्वाभाव्येन, 'इति' एवं वाक्यालङ्कारतया 'चः' समुच्चये 'इह' सूत्रे 'उपन्यस्तः' संस्कृते वाक्यालङ्कारतयाऽस्य प्रयोगादर्शनात् ॥ .
___टी०...(३) नमस्कारवाचकस्य 'नमः' पदस्य शक्तिः, कोशाप्तवाक्यादितः पूजारूपे विशिष्टार्थे निरूढाऽस्ति, तथाहि प्रथमं तावत् 'नमः' इति पदस्य सामान्यज्ञानाऽनन्तरं 'नमः' पदस्य शक्तिः' पूजाऽर्थेऽस्तीति ज्ञानं भवति, ततः 'नमः' इति पदेन पूजार्थस्योपस्थितिर्भवत्यर्थान्नमः पदं पूजार्थम्, पूजा च द्रव्यभाव-संकोचरूपेण भेदद्वयवती. (१) तत्र-द्रव्यभावसंकोचरूपप्रकारद्वयावच्छिन्नपूजाघटकद्रव्यसंकोचं स्वरूपयति 'करशिरः पादादिसंन्यासो द्रव्यसंकोचः' अर्थात् करपादमस्तकादि-शरीरसत्कावयवानां ग्रहणकम्पनचलनादि क्रियां निरुद्धय, करद्वयं ललाटे नियुज्य प्रणामरूपाऽञ्जलिबन्धः, अर्धाङगावनतप्रणामस्तथा पञ्चाऊगीप्रणिपातादिमुद्रावि (सं) न्यासः (सम्यन्यासः) द्रव्य-सङकोचः (२) 'भावसङकोचस्तु विशुद्धस्य मनसो नियोगः इति, अर्थाद्, अर्हदादिगुणेषु विशुद्धस्य-निर्दोषस्य परमपवित्रस्य मनसोऽन्तः करणस्य-उपयोगस्य नियोगः (प्रवेश:-प्रीत्या प्रणिधान-अनन्यवृत्तिः) भावसंकोच:-अत्यन्तनिर्मलमनसः प्रभोर्गुणगणैः सह विशिष्टसुदृढ़रूपतया बन्धनमित्यर्थः (इत्थ नमुत्ति पयं दव्वभावसंकोचरुव पूयत्थं । करशिरमाइ द्रव्वे, पणिहाणाइ भवे भावे) द्रव्यभावसंकोच-विषयिणी चतुर्भङगी. निरुप्यते. .(१) द्रव्यसंकोचनमस्कारो भवतु न भावसंकोचनमस्कारः, (२) द्रव्यसङकोचो न भवेच्च भावसंकोचो भवतु, (३) द्रव्य-संकोचो भवेच्चापि भावसंकोचो भवतु, (४) द्रव्य-संकोच-भावसंकोचो-भयाभावः ॥ अत्रान्तिमो भङगस्तु शून्य एव, द्वितीय-तृतीयभङगावादरणीयौ, प्रथमभङगस्त्वनादरणीय एव. द्रव्यभावसङकोचयोर्मध्ये भावसङकोच एव मुख्योऽस्ति, यतः स एव, ऐकान्तिकात्यन्तिक-फलदोऽस्ति भाव संङकोचरहितो द्रव्यसङकोचः पालकादिवन्निष्फलः, तथाऽनुपयुक्तसम्यग्दृष्ट्यादेस्तु निष्फलः ।
36