________________
ललितविसतरा-सटीका
प्रथमतः, तल्लक्षणं-व्याख्याया लक्षणमधुनाऽऽरभ्यते 'संहतादि, तल्लक्षणं' व्याख्याया लक्षणम् (असाधारण-धर्मो वा त्रिदोषशून्यम्) संहिताद्यन्यतमत्वं व्या. लक्षणम्. यथोक्तं संहितादि. (समुदितपदामादौ विद्वान् वदेदिह संहितां, तदनु च पदं तस्यैवार्थ वदेदथ विग्रहम् । निपुणभणिति तस्याऽऽक्षेपं तथाऽस्य च निर्णयं बुधजनमता सूत्रव्याख्या भवेदिति षड्विधा । इत्यत्र मधुरं भणनीयं च गेयम्) अन्यत्राऽपि एवं भण्यते तथाहि
"पदच्छेद: पदार्थोक्तिः, विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं, व्याख्यानं पञ्चलक्षणम् ॥ पदप्रकृतिभावश्च, वृत्तिभेदेन वर्ण्यते ।
पदानां संहिता योनिः, संहिता वा पदाश्रया ॥" इति वाक्यपदीये द्वितीयकाण्डे श्लो. ५८) अथ शास्त्रकारेण व्याख्याया अंगानि कथ्यन्तेएतदंगानि तु जिज्ञासा गुरुयोगो विधि इत्यादीनि अत्राप्युक्तम्-"जिज्ञासा गुरुयोगो विधिपरता बोधपरिणतिः स्थैर्यम् । उक्तक्रियाल्पभवता, व्याख्यांगानीति समयविदः॥४॥"
टी०...इत्युद्देशग्रन्थः (नाममात्रेण वस्तुसंकीर्तनमुद्देशः) अथ शास्त्रकारः संहितादिषड्विधां व्याख्या, नमोत्थुणं सूत्रमध्ये 'नमोत्थुणं अरिहंताणं'-'नमोऽस्त्वर्हद्भ्यः' इति वाक्यं गृहीत्वा संगमयति. तत्र 'नमोऽस्त्वर्हद्भ्यः' इति संहिता, ...
टी०...(१)तनेति-नमोत्थुणं सूत्रे प्रथमं तावत् 'नमोत्थुणं अरिहंताणं-नमोऽस्त्वहद्भ्यः ' इति वाक्ये संहितारूपं प्रथमं व्याख्यालक्षणं घटयति. तथाहि = 'नमोऽस्तु' अत्र विसर्गसंहिता, 'नमोऽस्त्वर्हद्भ्यः' अत्र स्वरसंहिता, ... अर्हद्भ्यः' अत्र व्यञ्जनसन्धिः, (अत्र 'अतोऽति रोरुः, सि. १-३-२०' । 'अवर्णस्येवर्णादिनैदोदरल्, सि. १-२-७' । 'एदीतः पदान्तेऽस्य लुक्, सि. १-२-२७' 'इवर्णादेरस्वे स्वरे यवरलम्, सि. १.२-२१' 'तृतीयस्तृतीयचतुर्थे, सि. १-२-४६' । इत्यादिसूत्राण्युपयुक्तानि, तत्रास्खलितपदोच्चारणं संहितेति परिभाषा, परःसन्निकर्षः संहिते-पा. १-४-१०६ ति वचनात्, 'संहितैकपदे नित्या, नित्या धातूपसर्गयोः नित्या समासे वाक्ये तु, सा विवक्षामपेक्षते' ।। वर्णानामतिशयितः सन्निधिः संहिता.) पदानि तु नमः, अस्तु, अर्हद्भ्यः , . टो०...(२) 'नमोऽस्त्वहंद्भ्यः ' इति वाक्ये, पदरूपं द्वितीयं व्याख्यालक्षणं घटयति.
35