________________
ललितविस्तरा-सटीका
प्रत्युत्तरम् = एवं-प्रकारावच्छिन्नजिज्ञासापूरणाय सूत्रकारेण षष्ठी विशेषेणोपयोगसम्पदुपन्यस्ता, अर्थात् तीर्थकरदेवा धर्मस्य क्षेत्रेषु किं कीदृशं वा कार्य विदधति ? तदेतत्सम्पन्मध्ये दशितम् । -अथ विशेषनिश्चयार्थिनः प्रेक्षावन्तोऽर्हतां स्वरूपं निर्णेतु पृच्छन्ति(७) प्रश्नः = यानर्हतः स्तोतु भवन्तः सज्जास्तदा तेषामद्भुतमच्युतं स्वरूपं किमस्ति ? तद्दय॑तां, तज्ज्ञात्वा, तत्स्तुतौ, अद्वैतानन्दरस उल्लसत्येवाऽस्माकम् । प्रत्युत्तरं = एवंविधजिज्ञासापूर्त्यर्थं सकारणा स्वरूपसम्पदुपन्यस्ता, अप्रतिहतवर ज्ञानदर्शनधरत्वं व्यावुत्तच्छद्मत्वमित्यहंतां भगवतां शाश्वतस्वरूपमस्ति, एतादृशस्वरूपवन्तोऽर्हन्तो भगवन्तः स्तोतव्या एवेति. -अथ कश्चिद्, श्रीमान् लक्षाधिकलक्ष्मीपतिः श्रेष्ठी समस्ति, तस्य सुष्ठभक्ति-सेवाकारकं सेवक स्ववद् धनवन्तं श्रीमन्तं वा कर्तुं नालं तर्हि तस्य श्रेष्ठिनः श्रीमत्त्वं निरर्थकं गण्यते, तस्यैतादृशस्य श्रेष्ठिनः सेवा कत्तुं कश्चित् सज्जनो नेच्छति, तादृशीरीति र्देवोपासना-सत्कवाऽस्ति, यस्य देवस्य सेवया (स्तुत्या) परिणामेऽन्ततो गत्वा तद्वत्पदप्राप्ति नं भवेत्तदा, ताः सेवाभक्तिस्तुतयो निष्फलतां यान्ति, परन्तु जिनेश्वरो देवाधिदेवः स्वाज्ञापालनतत्परं भक्तं (भक्त्या स्वसत्यगुणस्तावकं) स्वतुल्यं कत्तुं समर्थो भवति वा न वा ? एतादृशजिज्ञासातुरः पेक्षावान् पृच्छति = (८) प्रश्नः = भगवन् ! एष जिनेश्वरो देवः स्वस्य परमभक्तं (स्वसद्गुणस्तावकं) स्वदर्शितमार्गे: गमनकारकं स्वतुल्यं कत्तुं समर्थोऽस्ति वा न वा ? एतेषामहंतां स्वरूपं दर्शय ! प्रत्युत्तरं एवंविध-जिज्ञासासम्पूरणकृते सूत्रकारेणाऽष्टमी, आत्मतुल्यपरफल कर्तृत्वरूपा सम्पदुपन्यस्ता एतस्यां सम्पदि श्री परमात्मा वीतरागः, स्वतुल्यं परभक्ताय फलं कत्तुं प्रत्यलोऽस्ति. श्रीभगवान् महाकृपासागरोऽस्ति, भगवत्सत्क-स्तुति-भक्ति-स्वतादात्म्य--स्वाभेदकर्तारं स्वतुल्यं करोत्येवेति. (६) प्रश्नः-सर्वज्ञतासर्वदर्शितारूपप्रधानगुणस्याऽक्षयस्थितिद्वारा शिवाचलादिरूपसिद्धिगलिस्थानरूपप्रधानफलवन्तोऽर्हन्तोभगवन्तः सन्ति न वा ? तथा च तद्दुर्लभलाभप्राप्त्या सदा भय-विजेतारः सन्ति वा न वा ? प्रत्युत्तरं = एवंविधजिज्ञासायाः शान्तये नवमी, प्रधानगुणापरिक्षय-प्रधानफलाप्त्यभयनामिका सम्पत्, सूत्रकारेणोपन्यस्ता, अर्थात् सर्वज्ञेषु सर्वदशिषु, एव शिवाचलादिस्थानस्य प्राप्तौ सत्यामभयता सदा सजाघटीति, इयतीनां सम्पदा स्वामिनस्तेऽर्हन्तो भगवन्तः कथं प्रेक्षावतां स्तोतव्या न स्युः ? अपितु सदा स्तोतव्या एव तत्र कः प्रश्न: ? अथास्य व्याख्या-तल्लक्षणं च संहितादि, यथोक्तम्-"संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थान, व्याख्या तन्त्रस्य षड्विधा ॥१॥” इति,
टी०...चैत्यवंदनसूत्रस्य व्याख्यानस्य प्रस्तावनाऽनन्तरं-अथ प्रस्तुतसूत्रस्य व्याख्या-तल्लक्षणांगादि-विभागक्रमं दर्शयति तथाहि = अथ 'अस्य' चैत्यवंदनसूत्रस्य व्याख्या-विवरणं क्रियते,
34