________________
ललितविस्तरा - सटीका
प्रत्युत्तरम् = एवं प्रेक्षावद् द्वितीयजिज्ञासाशमनाय द्वितीयसम्पदुपन्यासः, यतोऽर्हन्तो भगवन्त आदिकरत्वेन, तीर्थंकरत्वेन, स्वयंसम्बुद्धत्वेन स्तोतव्या एव अनार्हतां भगवतां स्तुतौ साधारणासाधारणहेतवो दर्शिताः प्रेक्षावतामेतावन्मात्रेण जिज्ञासा - तृप्ति नं भवति, ते तु पारंपर्येण - मूलतस्ते स्तोतव्यात्मनो वैशिष्ट्यं - मौलिक मुच्चत्वं द्रष्टुमत्यातुराः पुनः पृच्छन्ति,
( ३ ) प्रश्न: = किं स्तोतव्या अर्हन्तो भगवन्त आकालं - सदाकालं विशिष्टकोटीकाः सन्ति वा न वा ? स्तोतव्येषु सर्वपुरुषेभ्य उत्तमत्वं वा वैशिष्ट्यं मौलिकं वा पाश्चात्त्यं किं वर्त्तते ? प्रत्युत्तरं = एतेऽर्हन्तो भगवन्तः स्तोतव्याः सदाकालं विशिष्टकोटीकाः सन्त्येव ततो विशेषेण स्तोतव्या इति सन्दर्शनार्थं तथा प्रेक्षावत् = पुरुषजिज्ञासापूरणाय, तृतीयसम्पद उपन्यासः, अर्थात् पुरुषोत्तम - पुरुषसिंह - पुरुषवरपुंडरीक - पुरुषवरगन्धहस्तिन इति विशेषणैः सर्व पुरुषेभ्यः सदाकालं अर्हतां भगवतामात्मानो विशिष्टतमा दर्शिताः, अत्र स्तोतव्य-विषयकस्तुतिकरणे विशिष्टगुणरूपा हेतवो निरूपिताः सन्ति.
=
( ४ ) प्रश्न: किमेते ऽर्हन्तो भगवन्तः केवलं पुरुषेष्वेवोत्तमाः सन्ति अथवा समस्तेलोकेऽपि विशिष्टाः सन्ति ? यदि लोकेऽप्युत्तमा भवेयुस्तदा ते लोकोत्तमाः स्वस्वशवतीनां लोकेऽपि भिन्नभिन्न लोकरूपक्षेत्रेषु कीदृशमुपयोगं ( परमार्थं विदधति ?
प्रत्युत्तरं = एवं प्रेक्षावज्जिज्ञासापूरणाय चतुर्थ्याः सामान्येनोपयोगसम्पद उपन्यासः कृतः, एतेतीर्थंकरा लोकोत्तमा- लोकनाथा - लोकहिता- लोकप्रदीपा - लोकप्रद्योतकरा भवन्ति, तीर्थकराः समस्तपंचास्तिकायात्मक- लोके, उत्तमाः सन्ति, एतत्सम्पदः प्रथमपदेन दर्शितमिति, अथ कया कयारीत्या ते उत्तमाः ? एतद्दर्शयितुं लोकनाथादीनि चत्वारि विशेषणपदानि दत्तानि अस्यां सम्पदि श्रोतीर्थंकरदेवः स्वशक्तीनां लोकस्य भिन्नभिन्न विभागेषु कीदृशमुपयोगं - परमार्थं कुर्वन्तः सन्ति ? इति ज्ञापयति. अत एषोपयोगसम्पत् कथ्यते.
- अथ सामान्येनोपयोगसम्पदो हेतूनां - जिज्ञासां पृच्छति
( ५ ) प्रश्न: = एतेऽर्हन्तो भगवन्तः कीदृशं किं वा दानं कृत्वा लोकेषु सामान्येनोपयोगं - परमार्थं कुर्वन्तीति तस्योपयोगस्य हेतून् भवन्तो दर्शयन्तु ।
प्रत्युत्तरम् = प्रेक्षावल्लोकेषु सामान्येनोपयोग हेतु विषयक - जिज्ञासा यदोद्भूता तदा सूत्रकारस्तज्जिज्ञासापूरणाय पञ्चमी सामान्येनोपयोगहेतु सम्पदं कथितवान् अनया रीत्या तीर्थंकरो भगवान्, अभयदानं चक्षुर्दानं मागंदानं - शरणदानं बोधिदानं कृत्वा लोकेषु परमार्थं विदधातीति. _ ( ६ ) प्रश्नः = अर्हतां भगवतां हेतुपूर्वकः सामान्येनोपयोगो भवद्भिर्ज्ञापितः परंतु वयं पृच्छामः, यत् तीर्थंकरदेवानां विशेषेणोपयोगो ( परमार्थः) विद्यते वा न वा ? यद्यस्ति तर्हि दर्श्यतां, कस्मिन् विषये विशेषेणोपयोगोऽस्तीति ?
33