________________
ललितविस्तरा-सटीका धैर्यवतां सिद्धांतः) यत्नविशेषः कर्तव्य इति श्रेयोमार्ग इति अस्तु नामायं प्रवचनगाम्भीर्य-निरूपणादिरुत्सर्गापवादस्वरूपपरिज्ञानहेतुः श्रेयोमार्गः, अदिशक्यानुष्ठानत्वेन पूर्वोक्तश्रेयोमार्गे कोऽपि न प्रवर्तेत यदि कोऽपि प्रवत्तेत तदा कस्कस्तं मार्गमाराधयितु-जीवनसात् कत्तुं समर्थोऽस्ति ? तं तं विशिष्टसाधकं सविस्तारं दर्शयतु भवान् भगवान् । व्यवस्थितश्चायं महापुरुषाणां क्षीणप्रायकर्मणां विशुद्धाशयानां भवाबहुमानिनां अपुनर्बन्धकादीनामिति,
पं०...'व्यवस्थितश्चेत्यादि' व्यवस्थितश्चायं-एष श्रेयोमार्ग: प्रतिष्ठितश्च स्वयमेव, महापुरुषः अपुनर्बन्धकादिभिरनुष्ठितत्वात्,
टी०...येऽपुनर्बन्धकादयः सन्ति, अत एव भवाऽबहुमानिनः, यतो भवबहुमानिनो नात एव विशुद्ध-निर्मलतमाशयवन्तः सन्ति, विशुद्धाशयवत्त्वेनैव कर्मणां क्षयक्षयोपशमोपशमवन्तो भवन्त्येव, ये क्षीणप्रायकर्माणोऽत एव महापुरुषाः सन्ति, एवमधिकारितया पश्चानुपूर्वीक्रमेण परस्परं कार्यकारणभावो ज्ञेयः, अतस्तैर्महापुरुषरेष श्रेयोमार्गः स्वजीवने, आत्मसात् प्रतिष्ठितः कृतः परेषामुपदिष्टः स्वयं च प्रतिष्ठित इति, अथवा यथासंभवं ये क्षीणप्रायकर्माणस्ते विशुद्धाशया ज्ञेयाः, ये विशुद्धाशयास्ते भवाबहुमानिनः, ये भवाऽबहुमानिनस्ते पुनर्बन्धकादयः, आदिपदेनाविरतसम्यग्दृष्टि-देशविरतसर्वविरता ज्ञयाः, अपुनर्बन्धकादोनां महापुरुषाणामेष श्रेयोमार्गः कृतिप्रयत्नसाध्यत्वेनाशक्यानुष्ठानो नाऽपितु शक्यानुष्ठानः श्रेयोमार्गः, अत एतस्य श्रेयोमार्गस्य विधिरूप उपदेशः सफल एवेति निश्चप्रचम् । अन्येषां पुनरिहानधिकार एव, शुद्धदेशनाऽनहत्वात्,
टी०...पूर्वोक्तापुनर्बन्धकादेरन्येषां-भिन्नानां सकृद्बन्धका-(सकृदेकशः यो यथा-प्रवृत्तकरणद्वारा ग्रन्थिदेशं यावदागतो योऽभिन्नग्रन्थिकोऽस्ति य एकशो मिथ्यात्वमोहनीयकर्मण उत्कृष्टसप्ततिकोटाकोटीसागरोपम-प्रमाणां स्थिति भन्स्यति स सकृद्बन्धकः कथ्यते) दिमिथ्यादृष्टीनां चैत्यवंदनादिधर्ममार्गेऽधिकारो नास्ति, यतोऽपुनर्बन्धकादीनां जीवदलगतपरिणामविशेषेणाथवा गुणस्थानकविशेषजन्य-प्रमोदरूपभावेन जघन्यादि-भेदभिन्नाश्चैत्यवंदनायास्त्रिधा प्रकाराः, (१) अपुनर्बन्धकस्य जघन्यरूपा चैत्यवंदना, यतो विशुद्ध रपेक्षया प्रायः, तस्य परीणामो जघन्यकोटीकोऽस्ति । (२) अविरतसम्यग्दृष्टेः प्रायो मध्यम-चैत्यवंदना, यतस्तस्य विशुद्धरपेक्षया परिणामो मध्यकोटीकोऽस्ति । (३) विरतिमतामुत्कृष्ट-चैत्यवंदना, यतो विशुद्धेरपेक्षया प्रायस्तस्य परिणाम उत्कृष्टकोटीकोऽस्ति,
.
21