________________
ललितविस्तरा-सटीका
पादिपरीक्षाशुद्धजीवादितत्त्वाऽभिधायकत्वात् तथाहि सर्वदर्शनान्तराणि सूक्ष्मेक्षिकया निरीक्ष्य परीक्ष्य च, एतज्जैनदर्शनस्य पूर्वापराविरोधि-(संवादि) यथार्थव्यवस्थितप्रतिपिठित-सद्रूपपदार्थसार्थव्यक्स्थाऽद्भुताऽद्वितीया-सुगम्यताऽपेक्षया सर्वतन्त्रतोऽधिकता-दर्शनीया परेषां, स्वयं वा द्रष्टव्या (तथा प्रस्तुतकालेऽपि प्रत्याख्यान-व्रतादि-महाव्रतादि-विषयिणी, चैत्यवंदनगुरुवन्दनादिक्रियाविषयिणी योजनाऽप्यलौकिकी सावंतान्त्रिकस्याद्वादव्यवस्थाऽपि सर्वतन्त्रतो विशिष्यते.) (५) 'अपेक्षितव्यो व्याप्तीतरविभागः' = तथाहि जैनदर्शनस्य स्याद्वादरूपसिद्धान्तः, सार्वतान्त्रिक: सार्वदार्शनिकः-सर्वदर्शनानुगमविशिष्टोऽस्ति, यतः साङ्ख्य-नैयायिक (वैशेषिक) गुरुभट्टमुरारि मतानुयायिवेदान्ति-वेदानुयायीत्यादि-सर्वदर्शनानुयाथिभिः स्याद्वादः सिद्धत्गेन शरणत्नेन प्रतिपन्नोऽस्ति । अत एव जैनदर्शनस्य सर्वदर्शने व्याप्तिापकताऽस्ति, जैनेतरदर्शनानां जैनदर्शनेऽव्याप्तिरव्यापकताऽस्ति । 'उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयो न च तासु भवान् विलोक्यते, प्रविभक्तासु सरित्स्विवोदधिः' इति सिद्धसेनदिवाकरपादाः । तथाहि जैनदर्शनं सर्वदर्शनानि स्वकुक्षिमध्ये समानिवेशयति, यावन्तो वचःप्रकारास्तावान्-नयवादः, अत एव संपूर्णदर्शनानि नयवादे गर्भितानि सन्ति, यस्मिन् समये एष नयवादो मिथो निरपेक्षः सन् वस्तृतत्त्वं प्रतिपादयति तदाऽयं नयवादः परसमयः (जैनेतरदर्शनं) भवति, अतोऽन्यधर्मनिषेधकवक्तव्यं कथयज्जनेतरदर्शनं, संपूर्णदर्शनं-सर्वनयसमन्वयकारकं जैनदर्शनम् । 'नयानशेषान-विशेषमिच्छन्, न पक्षपाती समयस्तथा ते' इत्यादिसूरीश्वरहेमचंद्रपादाः, सर्वनयानां. समानतामिच्छन् हे भगवन्. ते-तव समयो न पक्षपाती, यथा विप्रकीर्णा भिन्नभिन्ना मुक्ताः, एकसूत्रे सम्भूय मनोज्ञा मुक्तामाला भवति, तथा मिन्नभिन्ना नया स्याद्वादसूत्रे संभूय संपूर्णनयाः श्रुतप्रमाणत्वेन व्यवह्रियन्ते, न च प्रत्येकनया मिथो विरुद्धाः सन्ति तेषां नयानां; एकस्थाने एकत्रीकरणेन तेषां विरोधो विवादो, वा कथं शाम्येदिति वाच्यम्, यथा परस्परं विवादिनो वादिनः प्रतिवादिनश्च मध्यस्थं न्यायाधीशं. मध्ये कृत्वा यत्कृतं न्यायं-समाधानं प्राप्य विवादं विस्मृत्य मिथो मैत्री कृत्वा सप्रेमाऽसते तथा मिथो विरुद्धा नयाः सर्वज्ञं भगवन्तं शरणं प्रतिपद्य. 'स्यात्' पदेन विरोधस्य विवादस्य च शमनात्, मिथोमिन्नतां बवैकत्रस्थाने स्याद्वादे तिष्ठन्ति, एवं भगवतां शासनं सर्वनयरूपत्वेन सर्वदर्शनमयं संबोध्यते एव. यतितव्यमुत्तमनिदर्शनेष्विति श्रेयोमार्गः ।
पं०...'उत्तमनिदर्शनेष्विति' आज्ञानुसारप्रवृत्तमहापुरुषदृष्टांतेषु, अस्तु नामायं प्रवचनगाम्भीर्यनिरूपणादिरुत्सर्गापवादस्वरूपपरिज्ञानहेतुः श्रेयोमार्गः, पर ज्वरहरतक्षकचूडारत्ननारोपदेशवदशक्यानुष्ठानो भविष्यतीत्याशङ्कयाह
टी०...'उत्तमनिदर्शनेष्विति' जिनानामाज्ञामनुसृत्य प्रवृत्ताः-सकलप्रवृत्तिमन्त एव महापुरुषास्तेषां दृष्टांतेषु (उत्तमपुरुषाणां दृष्टान्ता ग्राह्या नाधमानामिति सम्यक्त्वदाढर्यनैर्मल्य
20