________________
मलितविस्तरा-सटीका माहिभिरापरित शुद्धशीलवन्तो न सेवन्ते, यथा श्रावकादिषु ममत्वं, शरीरशोभार्थमशुद्धवस्वाहारादिग्रहणम्, शिष्टजनाऽवाच्यासमंजसानेकविधक्षुद्रसत्त्वचेष्टादिकं, लिगिजनताऽचरितमपि, निष्कलंक-चारित्रिपुरुषाणामप्रमाणत्वेनालंबनहेतुभूतं न भवति, यतः सूवेश निषिद्धत्वेन संयमादिविरुद्धत्वेन, निष्कारणत्वेन चलितमप्यनुपादेयमेव ॥ श्रेयोमार्गप्रदर्शनम्-: एतदङ्गीकरणमप्यनात्मज्ञानां संसारसरिच्छोतसि कुशकाशावलम्बनमिति परिभावनीयं सर्वथा,
पं०. . एतदङ्गीकरणमपीति' एतस्य-क्षुद्रसत्त्वविजृम्भितस्यापवादतयाऽङ्गीकरणमपि-आदरणमपि, कि पुनरनङ्गीकरणं ? आलम्बनं न भवतीत्यपिशब्दार्थः । 'कुशकाशावलम्बन मिति' कुशाश्च काशाश्च कुशकाशा: तेषामालम्बनं-आश्रयणमनालम्बनमेवापुष्टालम्बनत्वादिति,
टी०...तथाहि 'अनात्मज्ञानां'-आत्मज्ञानरहितानां, अध्यात्मभानशून्यानां क्षुद्रसत्त्वाचरितस्वीकरणं, संसाररूपसरितः श्रोतसि-प्रवाहे कुशकाशावलम्बनं-कुशाश्च काशाश्च, कुशकाशानां (प्रवाहस्थितदर्भतृणविशेषाणां) आलंबनं-अर्थात् संसारसरितो बहिनिस्सरणाय भवाऽभिनन्दिभिराचरितं जडात्मभिः कृतमालंबनं वस्तुतः कुशकाशालम्बनसदृशं, ततः कदाचिद्बहि निस्सरणं न भवति यतस्तदालम्बनमनालंबनमेवापुष्टालम्बनत्वादिति सर्वथा परिभावनीयं-विचारणीयं सर्वथा (१) निरूपणीयं प्रवचनगाम्भीर्य, विलोकनीया तन्त्रान्तरस्थितिः, वर्शनीयं ततोऽस्याधिपत्य अपेक्षितव्यो व्याप्तीतरविभागः ॥
पं०...'दर्शनीयं ततोऽस्याधिकत्वमिति' दर्शनीयं-दर्शयितव्यं, परेषां स्वयं वा दृष्टभ्यं, 'ततः' तन्त्रान्तरस्थितेः 'अस्य' प्रकृततन्त्रस्य 'अधिकत्वं' अधिकभावः, कषादिशुद्धजीवादितत्त्वाभिधायकत्वात्, 'व्याप्तीतरविभाग' इति व्याप्तिश्च सर्वतन्त्रानुगमोऽस्य सर्वनयमतानुरोधित्वाद्, इतरा चाव्याप्तिस्तन्त्रान्तराणामेकनयरूपत्वाद्, व्याप्तीतरे, तयोः विभागो-विशेषः, इह चेतराशब्दस्य पुवनायो 'वृत्तिमात्रे सर्वादीनां पुक्दभावः' इति वचनात् ॥
टी०...(२) सर्वज्ञ-जिनेन्द्रभगवद्वचनरूपजैनप्रवचनरूप सदागमस्य गाम्भीर्यमगाधनं. विशालत्वं च नितरां दृष्टांत-हेत्वादिद्वारा निरूपणविषयीकर्तव्यम् । (३) अन्यांनि तन्त्राणि तन्त्रान्तराणि तेषां स्थितिः = व्रतादितत्त्वादिविधिनिषेधाद्यपवादात्सर्गादिमर्यादा, विलोकनीया-विशेषणेक्षणीया। (४) दर्शनीयं ततोऽस्याऽधिकत्वमिति = दर्शनीयं-दर्शयितव्यं परेषां पुरः स्वयं वा द्रष्टव्यं ततः = तन्त्रान्तरस्थितेः सकाशात् 'अस्य' प्रत्यक्षभूतप्रकृतज़ेनतन्त्रस्य 'अधिकत्वं' अधिकभावः, कषच्छेद्रता
19