________________
समितविस्तरा-सटीका
नतु सूत्रबाधया, गुरुलाधवचिन्ताऽभावेन हितमहितानुबन्ध्यसमंजसं परमगुरुलाघवकारिक्षुद्रसत्वविजृम्भितमिति ॥
पं०...'अपिच' इति दूषणान्तरसमुच्चये, यदृच्छाप्रवृत्त्या सम्यक्चत्यवंदनविधेः 'माघवापादनेन' लघुकरणेन 'शिष्ट प्रवृत्तिनिरोधतः' पूज्यपूजारूपशिष्टाचारपरिहारात् 'तद्विघात एव' उपायान्तरादपि संभवन्त्यास्तथेष्टफलसिद्ध विष्कम्भ एव, यथोक्तम् 'प्रतिबध्नाति हि श्रेयः, पूज्यपूजाव्यतिक्रमः'। (इतिकविकुलगुरुकालीदासोक्तिः)आह-ननु गतानुगतिकरूपश्चैत्यवंदनविधिरपवादस्तहि स्यादित्याशङ्कगह-'अपवादोऽपीत्यादि' उत्समर्गभेद एवेति उक्तविशेष एदेति उक्तविशेषणोऽपवाद उत्सर्गस्थानापन्नत्वेनोत्सग्गफलहेतुरित्युत्सर्गविशेष एवेति ।।
टी०... 'अपिचेति' दोषान्तरसंग्रहवाचकपदमनाऽस्ति, तथाहि स्वच्छन्दाचारेण सम्यक्चैत्यवंदनरूपक्रियाया लघुत्वकरणद्वारा पूज्यपूजारूपशिष्टाचारप्रतिबन्धतः, कारणान्तरजन्यतथेष्टफलसिद्धिरूपकार्याभावः, यतः पूज्यपूजाव्यतिक्रमः, श्रेयः प्रतिबन्धको भवति, अर्थात् शास्त्रवचनं प्रतीत्य प्रवर्तनेन सम्यक्चैत्यवंदनक्रियाया गुरुत्वोत्कर्षः क्रियते, तद्गौरवेण पूज्यपूजारूप: शिष्टाचारः सत्यापितः, शिष्टाचारपालनेन नियमतः स्वेष्टफल सिद्धिः, यतः पूज्यपूजाव्यतिक्रमः श्रेयः प्रतिबन्धकः, वीतरागो हि परमपूज्यः पुरुषः, तद्ववचनं परमपूज्यं, तदाराधनं श्रेयस्कर, तद्व्यतिक्रमः श्रेयः प्रतिबन्धकः, तत्र किमाश्चर्य ? पूज्यपूजारूपशिष्टाचारो नोलङघनीयः प्राणान्तेऽपि. ननु शिष्टाचारोऽपि गतानुगतिकत्वेन चैत्यवंदनविधिरपवादविधित्वेन नोत्सर्गविधिस्तहि स्यादित्याशङक्याह-'अपवादोऽपीत्यादि' (१) सूत्रमबाधितं रक्षित्वा (सूत्रोक्तबाधाभावेन सह) 'गुरुलाघवचिन्तया कृतस्य सूत्रेण सह पूर्वापरविरोधाभावात्' गुरुलाघवालोचनपर:-गुणदोषबहुत्वाऽबहुत्वविषयक समालोचनापरायणः । 'अवलम्ब्य कार्य यत् किंचित्, समाचरन्ति गीतार्थाः, स्तोकापराधबहुगुणं सर्वेषां तत्प्रमाणं तु' (ध.प्र.) (२) अधिक (बहु) दोष-निवृत्त्या, पुण्यानुबन्धित्वविशिष्ट पुण्यरूपः, (३) महासत्त्वाऽसेवितः-संविग्नगीतार्थत्वविशिष्टमहासत्त्वरूपमहापुरुषासेवितः (आचरितः-संचालितः) ('आचरणाविहु आणा' इति कल्पनियुक्ति:-आचरणापीति न केवलं सूत्रोक्तमेवाज्ञा, किन्तु आचरणापि, संविग्नगीतार्थाचरितमपि आजैव, हुरेवार्थे, सूत्रोपदेश एव, आतीर्थानुवतिजीताख्यपंचमव्यवहाररूपत्वादिति.) उत्सर्गभेद एवेति = उक्तविशेषविशिष्टोऽपवाद उत्सर्गस्थानापन्नत्वेनोत्सर्गफलहेतुरित्युत्सर्गविशेष एवार्थादुत्सर्गप्रकार एव, 'न तु सूत्रबाधये'ति-सूत्रेण बाधितोऽपवाद उत्सर्गस्थानापन्नो न भवति, एष सगुणोऽस्ति वा निर्गुणोऽस्ति ? इत्यालोचनारूपगुरुलाघवचिन्तारहितोऽपवाद उत्सर्गस्थानापन्नों न भवति, अतएव शुभरूपं हितं, अशुभरूपाहितानुबन्धित्वतोऽसमंजसमयुक्तं ततोऽपवाद उत्सर्गस्थानापन्नो न भवति, परमगुरुंतीर्थकरं, निन्दादिद्वारा लघूकरणेन क्षुद्रसत्त्वेन (भवाभिनंदिजीवेन) विजृम्भितं चेष्टितमाचरितमपवादः, उत्सर्गस्थानापन्नो न भवतीति, य आचारः संयमादि बाधतेऽतः प्रमादरूपो भवत्यतो गुरुलाघवचिन्तारहितत्वेन यतनाया अभावाद् हिंसात्मको भवति, ऐहिकसुखप्रतिबद्धरपुष्टासदालम्बन
18