________________
ललितविस्तरा-सटीका
अस्मात्कारणादनधिकारिणां चैत्यवंदनसूत्रादिपाठरूपे प्रयोगे-योजने यदकल्याणमनों भवति तत्र तत्त्वतः-वस्तुतो लिंगैरपरीक्षक-प्रयोक्तृकृतमेव-प्रयोजकव्यक्तिरूपकारणजन्यं तदकल्याणं ज्ञेयमर्थादपरीक्ष्य लिंगैरनधिकारिपाठकस्यापि सहाकल्याणं-पाठकाकल्याणेन सह पाठयस्याप्य कल्याणमेव. पाठ्यपाठकयोरुभयोरकल्याणम्, तथा विशिष्टलिंगैस्तदधिकारितामवेत्य-परीक्ष्य तदध्यापने प्रवर्तेत-पाठनाधिकारिता समीक्ष्य पाठकप्रवृत्तिः कर्त्तव्या नान्यथा. एवं पाठनविधिकुर्वता तत्त्वत आराधितं-आराधनाविषयीकृतं जिनवचनं, 'लोकनाथः'-तीर्थंकरो जगन्नाथः 'बहुमतः'-हृदयगतभक्तिसूचकबहुमानविषयीकृतः, अत एव 'परित्यक्ता लोकसंज्ञा' गतानुगतिकत्वरूपलक्षणगम्या-असत्य-लोकप्रवाहः परित्यागविषयी-कृतः, 'अंगीकृतं लोकोत्तरयानं लोकोत्तराअलौकिकी प्रवृत्तिः प्रतिपन्ना, 'समासेविता धर्मचारिते' ति-अवश्यं धर्मविषयकमाचरणं कृतमेवेति. अत:-अस्माद् विधेरन्यथा-विपर्ययः = अधिकारितामपरीक्ष्याध्यापनप्रर्वत्तकेन विराधितं जिनवचनं' लोकनाथोऽबहुमतः, लोकसंज्ञा बहुमता, लोकोत्तरयानं परित्यक्तं, आशातिता धर्मचारितेति विचारणीयमेतदत्यन्तसूक्ष्मोपयोग-ध्यानेन । शास्त्ररूपवचनविहितमेव मार्गमतिक्रम्य, नहि हितकल्याणप्राप्तेरुपाय:-साधनमस्ति, वीतरागवचना-विनाभावि हितं नान्यथेति. तथाहि-स्वेष्टफलसिद्धि प्रति पुरुषप्रवृत्तिद्वारा, अनुभव (यथार्थज्ञानं) एवासाधारणकारणमस्ति. सत्यनुभवाभावे पुरुषप्रवृत्तिमात्रेण नेष्टफलसिद्धिः, यः पुरुषः सफले कर्मणि प्रवर्तते तत्कम द्विविधं भवति. (१) पूर्वं स्वयमेव यस्य कर्मणो दृष्टं फलं, तत्कर्म दृष्टफलं यथा कृष्यादिकं, तत्र तत्साधनपूर्वकं प्रवृत्तस्य धान्यसिद्धिरूपमिष्टं दृष्टं फलं अवश्यं सिद्ध्यत्येव.(२) आप्तपुरुषेण (यथार्थवादिना) दशितं साधनपूर्वक क्रियमाणं अदृष्टं (परोक्षमतीन्द्रियं) फलं यस्य तत्कर्मादृष्टफलकं यथा लौकिकनिधानखननादि, तत्र प्रवृत्तस्य निधानप्राप्तिरूपमिष्टं फलं भवति. प्रत्यक्षपरोक्ष (आप्तवचनादि) रूपयथार्थज्ञानानुभवः, दृष्टादृष्टफलसिद्धि प्रति कारणम्, एवं च दृष्टफलककर्मण इष्टफलसिद्धि प्रति प्रत्यक्षानुभवः कारणम्, अदृष्टफलककर्मण इष्टफलसिद्धिं प्रति आप्तवचनरूपानुभवः कारणम्, एवंविधकार्यकारणाभावे, इष्टफल सिद्धिनं भवत्येव । तथा च प्रकृते चैत्यवंदनकर्म, अतीन्द्रियनिर्वाणफलकं अत एतत्कर्म प्रति आगमवचनरूपानुभवः प्रमाणभूतकारणम्, तदभावे पुरुषप्रवृत्तिमात्रं नेष्टफलसाधकं, चैत्यवंदनकर्म प्रति आप्तवचनरूपागमानुभवः प्रवर्तकोऽस्ति यतः सकलपारमार्थिक प्रत्यक्षरूपकेवलज्ञानिवीतरागवचनानुसारिणी प्रवृत्तिरमोघफलदाऽस्ति । प्रवचनवचनमेवैको हिताप्त्युपायो नान्यस्तन प्रवचनवचनमक्मणय्य केवलपुरुषप्रवृत्त्या स्वेष्टफल सिद्धौ पूर्वोक्त एको दोषो दशितोऽथ प्रवचनवचनरूपानुभवं विना स्वेष्टफलसिद्धौ पुरुषमात्र-प्रवृत्त्या द्वितीयो दोषो दर्श्यतेअपि च-लाघवापादनेन शिष्टप्रवृत्तिनिरोधतस्तद्विघात एव, अपवादोऽपि सूत्राबाधया गुरुलाघवालोचनपरोऽधिकदोषनिवृत्त्या शुभः शुभानुबन्धी महासत्वासेवित उत्सर्गभेद एव
17