________________
मलितविस्तरा-सटीका
नितदौर्गत्यविच्छेदकमपीदमयोग्यत्वादवाप्य न विधिवदासेवते, लाववं चास्यापादयतीति, टी०...उच्यते-प्रत्युत्तरयति, सोऽनधिकारी (अयोग्यः कुपात्रः) अनेकभवशतसहस्र (लक्ष) त उपात्त-गृहीतानिष्टदुष्टाष्टकर्मराशितो जनितस्य दौर्गत्यस्य विच्छदकमचिन्त्यचिन्तामणिसदृशमपि चैत्यवंदनसूत्रादिकमवाप्य-संप्राप्य न विधिवद्-विधिपूर्वकमनधिकारी जीवो नासेवते-नाराधयतीति प्रथमो दोषः ।। सोऽयोग्यो विधिवन्नाराधयतीत्येतावन्मात्रमपि न परन्तु 'अस्य' प्रकृतचैत्यवंदनसूत्रादेरवज्ञाऽऽशातनानिन्दाविराधनादितो 'लाघवं' लघुतां' आपादयति-प्रकरोत्येवैतत् सूत्रादिकस्य लघूकरणे पटुतां प्रयुङ्कते. एतमेव विषयं विस्तारयति-: ततोऽविधिसमासेवकः कल्याणमिव महदकल्याणमासादयति, उक्तं च 'धर्मानुष्ठानवतथ्यात्प्रत्यपायो महान्भवेत् । रौद्रदुःखौधजनको, दुष्प्रयुक्तादिवौषधाद् ॥ इत्यादि' अतोऽनधिकारि-प्रयोगे प्रयोक्तकृतमेव तत्त्वतस्तदकल्याणमिति, लिंगस्तदधिकारितामवेत्येतदध्यापने प्रवर्तेत, एवं ही कुर्वता आराधितं वचनं, बहुमतो लोकनाथः परित्यक्ता लोकसंज्ञा, अंगीकृतं लोकोत्तरयानं, समासेविता धर्माचारितेति, अतोऽन्यथा विपर्यय इत्यालोचनीयमेतदति सूक्ष्माभोगेन, नहि वचनोक्तमेव पन्थानमुल्लङध्यापरो हिताप्त्युपायः, न चानुभवाभावे पुरुषमात्रप्रवृत्तेस्तयेष्टफलसिद्धिः ॥ पं०...कीदृशः ? 'लोकसंज्ञेति' गतानुगतिकलक्षणा लोकहेरिः, 'लोकोत्तरयानमिति' लोकोत्तरा प्रवृत्तिः, पुरुषमानप्रवृत्तिरपि हिताप्त्युपायः स्यान्न वचनोक्त एव पन्था इत्याशस्याह-नवानुभवेत्यादि बबनविधाय:-प्राक् स्वयमेव दृष्टफले कृष्यादौ तदुपायपूर्वकं-आप्तोपदिष्टोपायपूर्वकं चादृष्टफले निधानखननादी कर्मणि प्रवृत्तस्य स्वाभिलषितफलसिद्धिरवश्यं भवति, नान्यथा, अतोऽतीन्द्रियफले चैत्यवंदने फलं प्रति स्वानुभवाभावे पुरुषमात्रप्रवृत्त्याश्रयणान्न विवक्षितफलसिद्धिय॑भिचारसम्भवाद्, अतः शास्त्रोपदेशात्तत्र प्रवत्तितव्यमिति ।। टी०...तत:-तस्मात्कारणात् यथा चिंतामणीसमानं विधिना चैत्यवंदनसूत्रादिकमाराधयन् कल्याणमासादयति तथाऽविधिनाऽऽराधयन्नप्यनाराधयन् 'महदकल्याणम्' दीर्घदुरन्तकालीनामंगलमासादयति, उक्तंच 'धर्मसाधकानुष्ठानस्य वितथ-असत्त्व-भावकरणादविधि-साधनात्, साधकस्य महान्दीर्घदुरन्तकालिकाकल्याणरूपः प्रत्यपायो भवेत्, यथा-अविध्यादिदुष्टरीत्या-विपरीतत्वेन प्रयुक्तादौषधाद् रौद्रदुःखौघजनकः प्रत्यपायो भवेत्, तथाऽत्रापि ज्ञेयम्, इत्यादि' यथौषधं योग्यरीत्या न दत्तमन्यस्मै, अथवाऽपात्राय दत्तं तल्लाभस्य स्थाने महाहानिर्भवति तथा धर्म क्रियां वैपरीत्येनाचरतोऽनधिकारिणी भयंकरापायोत्पादनं भवति.