________________
ललितविस्तरा-सटीका
विधिपरता, विधिपूर्वकमेवोचितवृत्तित्वमिति, प्रकारान्तरनिरसनायाह-'अप्रेक्षापूर्वकारिविजृम्भितं हि तत्' अप्रेक्षापूर्वकारिणो ह्येवं विजृम्भन्ते, यदुत कनानुचितकारिणोऽप्यन्यत्रोचितकारिणो भवेयुरिति ॥ टी०...ये विधिपूर्वकोचितवृत्तयः, आमुष्मिकविधिरूपचैत्यवंदनावश्यकविहारदानपूजादिकं परलोकफलं कृत्यं प्रति (ऐहिक विधि प्रत्यपि) अनुचितकारिणः-विरुद्धवृत्तयो, अन्यत्र-इहलोके उचितवृत्तयः स्वकुलाधुचितपरिशुद्धसमाचारा नैव भवन्ति, अर्थात् परलोकफलकर्तव्यं प्रति समुचितकारिण एवेहलोके उचितवृत्तयो भवन्ति, यतः परलोक-प्रधानस्यैवेहाप्यौचित्यप्रवृत्तिरस्ति, तदुक्तं-'परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत्, आत्मानं योऽतिसंधत्ते-वञ्चयति सोऽन्यस्मै कथं हित:-हितकरः
स्यात् ?'
यतो लौकिकौचित्यद्वाराऽऽश्रवभावद्वारा, केवलपरलोकप्रधानकर्त्तव्यस्यावज्ञया, विषयभेदेनेहलोकपरलोकयोः - ऐहिकपारलौकिकप्रत्यक्षपरोक्षानर्थजालपरिहारे प्रवृत्तिरूपस्यौचित्यस्याभावो वर्तते यत्कर्त्तव्यस्य फलं परलोके सुन्दरमिहापि तत्कृत्यमेव सुन्दरमिति विधिपरता कथ्यते. विधिपर्वकमेवोचितवृत्तित्वमिति. यत्र विषयभेदस्तत्रौचित्याभावः, यत्र विषयभेदो न तत्रौचित्यसद्भावः, यथाऽप्रेक्षापूर्वकारिणो ह्येवं विजृम्भन्ते, विषयभेदद्वारौचित्यं स्थापयन्ति. य एकत्र चैत्यवंदनावश्यकविहारदानपूजादिकरूप-परलोक-साधने विषयेऽनुचितकारिणो . भवन्ति. अन्यत्र-केवलैहिककुलक्रमागतकृत्ये विषये उचितकारिणो भवन्ति. परन्तु वस्तुतो विषयभेदद्वारौचित्यस्योच्छेदं कुर्वन्ति. अत एव, अथ विधिपरतासूचकं 'विधिपरा' इति पदं कारणतासूचकपदं प्रथमं प्रोक्तं पश्चात् 'उचितवृत्तयः' पदं कार्यतासूचकपदं प्रोक्तं विधिपूर्वकमेवोचितवृत्तित्वम्, कार्यकारणभावत्वेन, विधिपरत्वकारणजन्योचितवृत्तित्व-कार्यक्रम-योजनेति । तदेतेऽधिकारिणः परार्थप्रवृत्तलिंगतोऽवसेयाः, मा भूदनधिकारि-प्रयोगे दोष इति । लिंगानि चैषां तत्कथाप्रीत्यादीनि, तद्यथा-तत्कथाप्रीतिः, निन्दाऽश्रवणम् ॥ तदनुकम्पा चेतसो न्यासः प्ररा जिज्ञासा, तथा-गुरुविनयः सत्कालापेक्षा उचितासनं युक्तस्वरता पाठोपयोगः, तथा लोकप्रियत्वं अगहिता क्रिया व्यसने धैर्य शक्तितस्त्यागो लब्धलक्षत्वं चेति ॥ ... पं०...'तेष्वनुकम्पेति' तेषु-चैत्यवंदन निन्दकेषु अनुकम्पा-दया, यथा-अहो कष्टं यदेते तपस्विनो रजस्तमोभ्यामाबेष्टिता विवशा हितेषु मुढा इत्थमनिष्टमाचेष्टन्त इति, 'चेतसोन्यास इति' अभिलाषातिरेकाच्चैत्यवंदन एव पूनः पुनर्मनसः स्थापनं 'परा जिज्ञासेति' परा-विशेषवती चैत्यवन्दनस्यैव जिज्ञासा-ज्ञातुमिच्छा, 'सत्कालापेक्षेति' सन्ध्यानयरूपसुंदरकालाश्रयणं, "युक्तस्वरतेति' परयोगानुपघातिशब्दता 'पाठोपयोग' इति पाठे-चैत्यवंदनादिसूनगत एवोपयोगो नित्योपयुक्तता, 'लब्धलक्षत्वं चेति' लब्धं-निर्णीतं सर्वत्रानुष्ठाने लक्ष-पर्यन्त साध्यं येन स तथा तद्भावस्तत्त्वं, यथा"जो उ गुणो दोसकरो, न सो गुणो दोषमेव तं जाण। अगुणोवि हु होइ गुणो, विणिच्छो सुन्दरो जत्यत्ति ।।१।।"
13