________________
पतिविस्तरा-पटीका परमादेः क्षयो-विनाशस्तमन्तरेग-विना 'इत्यंभूता' एतबहुमानादिप्रकारमापना भवन्ति' वर्तन्ते, तत एतद्बहुमानादिवडम्वकर्मविशेषलवानवाधिकारी, नापर इति । भवन्तु नामवं, तथापि कथमित्वमेषामुपन्यासनियम इत्याह-'कमोऽपी' त्यादि, 'न पायम्' इति, नव-वं, अब-भावः, चैत्यवंदनविषयमुपरिनामस्मः, संवेगादिविधिप्रयोगहेतुरिति ॥ टीका...उच्यते एतबहुमानिनः-(१) अपित्व-सामष्य-शास्त्रापर्युदस्तत्वलक्षणो यः, स निवर्गरूपपुरुषा-चिन्तायां धर्ममेव बहुमन्यते, एतद्-चैत्यवंदनपाठादिकं बहुमानतः कुर्वन्ति ।, (२) विधिपराः = इहलोकपरलोकयोरवियफममनुष्ठान तथा व्यवहारे प्रवर्तन विधिः, स पर:प्रधानं येषां ते विधिपराः, तवा (३) उचितवृत्तयः-बाह्मणादिस्ववर्णस्वकुलाबुचितजीवनोपायवन्तः एते धर्माधिकारिण उक्ताः, सततशुभपरिणामजनने, प्रतिबन्धक-विशिष्ट-कर्मणि सति सम्यक् चैत्यवंदनलाभः प्रतिबध्यतेऽतस्तलमविशेष-प्रतिबन्धकक्षयवानवाधिकारी वाच्यः, किमनेनैतद्बहुमानादिनेति चेत् कथ्यते, नैवान्तः कोटाकोटियधिकस्थितिमज्ज्ञानावरणादि-कर्मविनाशं विनतद्बहुमानादि-विशेषण-विशिष्टा भवन्ति, तत एतद्बहुमानादिव्यङ्ग्यकर्मविशेषक्षयवानेवाधिकारी नान्य इति. विशिष्टकर्मक्षयवानवाधिकारीत्येतत्समञ्जसमेव परन्तु कर्मक्षयविशेषव्यञ्जकानि, एतद्बहुमानित्वविधिपरत्वोचितवृत्तित्वाख्यानि विशेषणानि दत्तानि, तेषामुपन्यासक्रमः कथमस्तीत्याह'क्रमोशीति'-एतद् बहुमानित्वविधिपस्त्वोचितवृत्तीनाममीषां क्रमोऽपि-हेतुपूर्वकपूर्वानुपूर्वीक्रमः अयमेव, (१) प्रथमं तद्बहुमान (२) ततः विधिपरत्वं (३) तत उचितवृत्तिरिति क्रमः यतो वस्तुतः, एतद्धर्मबहुमानरहिता विधिपरा न कय्यन्ते, कथमिति चेत्, विधिप्रयोगो भावप्रधानो भवति. येषां चैत्यवंदनविषयकपाठादिकं प्रति बहुमानं नास्ति, तेषां इहलोकपरलोकयोरविरुद्धफलजनक-विधिपरत्वं न मतमस्ति, विधिभावकार्य प्रति बहुमानं कारणमस्ति, अयं विधिप्रयोगो बहुमानामाचे न भवति, तथाऽयं भावः, चैत्यवंदन-विषयशुभपरिणामरूपः, संवेगादिविधिप्रयोगहेतुरिति-संवेगादिविधिप्रयोगरूपकार्य प्रति चैत्यवंदनविषयकशुभपरिणामरूपभावः कारणमिति । म चामूनिकविधावप्यनुचितकारिणोऽन्यत्रोचितवृत्तय इति, विषयभेदेन तदौचित्याभावाद, अप्रेमापूर्वकारिविजृम्मितं हि तत्, पं०....'न चामुष्मिकेत्यादि' नच-नैव, चशब्द उचितवृत्तेविधिपूर्वकत्वभावनासूचनार्थः, 'भामुष्मिकविधी' परलोकफले कृत्ये, कि पुनरैहिकविधावित्यपेरः 'अनुचितकारिणों' विरुद्धवृत्तयः 'अन्यत्र' इहलोके 'उचितवृत्तयः' स्वकुलाचितपरिशुद्धसमाचारा भवन्ति, परलोकप्रधानस्यैवेहाप्यौचित्यप्रवृत्तः, तदुक्तम्- "परनोकविरुडानि, कुर्वाण दूरतस्त्यजेत् । आत्मानं योऽतिसंधत्ते, सोऽन्वस्मै स्यात्कथं हितः ?॥" कृत एतदित्याह-विषयभेदेन' भिन्नविषयतया 'तदौचित्याभावात्' तयोः-इहलोकपरमोकयोः, औचित्यस्य[दृष्टादृष्टापायपरिहारप्रवृत्तिरूपस्य, अभावात्, यदेव ह्यमुष्मिन् परिणामसुन्दरं कृत्यमिहापि तदेवेति