________________
ललितविस्तरा: सटीका तत्र का शङका ? निःशङकत्वमेव, समञ्जसमेव न केवलं श्रावणे, किं तहिं ?. पाठेऽपि, अधिकारिणो गवेषणीयाः प्रत्युत-अन्यथा = अनधिकारिणां श्रावणपाठादितः, अनर्थस्य सम्भवोऽस्ति, कर्मक्षयादिरूपार्थहेतुत्वे-अवज्ञा दिनाऽनर्थभावोऽस्ति ।
.. 'अहितं पथ्यमप्यातुरे' इति वचनप्रामाण्याद्-विशिष्टरोगसम्पन्नातुरं प्रति समर्थवैद्यराजस्य मार्गदर्शनं विना तथाऽव ज्ञया पथ्यमप्यहितं-अहितकरं भवति एवं वचनस्य प्रामाण्यमस्ति, तथा 'अर्थी समर्थः, शास्त्रेणाऽपर्यु दस्तो धर्मेऽधिक्रियते' इति विद्वत्प्रवादः' एवं धर्माधिकारिभेदा:-तथाहि (१) अर्थी = धर्माभिलाषाधिक्यवान्, अथिनो लक्षणत्रयं यथा-......: (अ) विनीत:-धर्म च धर्मव्याख्यातारं प्रति अभ्युत्थानादिविनयरूपसेवायाः कर्ता । (आ) समुपस्थित:-धर्मश्रवणादि प्रति सम्मुखताकारी, न विमुखः । (इ) प्रच्छन्-धर्मस्वरूपं प्रच्छन्, धर्मग्रहणाय विध्यादि ज्ञातुमातुरः । (२) समर्थः = निरपेक्षतया धर्ममनुतिष्ठन् न कुतोऽपि तदनभिज्ञात् बिभेति. सिंहवधर्ममङगी
कृत्य सिंहवद् भयादितोऽबिभ्यत् सिंहवत् पालन-समर्थः । . (३) शास्त्रेणापर्युदस्त:-सूत्रेणाऽनिषिद्धः, अनथ्र्यु द्देश्यकव्याख्यानस्याऽनुचितत्वादर्थिपदस्य सार्थक्यं, असमर्थे भंगोज्झनादिभावात् समर्थपदस्य साफल्यं विनयादिगुणरहितेऽपरिणमनात्, शास्त्रेणाऽपयुदस्तपदस्य साफल्यम्, अथित्वविशिष्टसमर्थत्व-विशिष्टशास्त्राऽपयुदस्तव्यक्ति धर्मेऽधिक्रियते एवं विदुषां प्रवादो (प्रघोषो) जगति वर्त्तते. 'धर्मश्चैतत्पाठादि:'-एतच्चैत्यवंदनक्रियातत्सूत्रपाठादिको धर्मः कथ्यते. 'कारणे कार्योपचारा' दिति आगमवचनानुसारेण मैत्री-आदि-भावसहितमनुष्ठानं धर्मत्वेन कथ्यते, तस्य कारणं चैत्यवंदनपाठादि, तद् धर्मत्वेन कथ्यते, यथाऽन्नं प्राणा: प्राणत्वाभाववति अन्ने, साधनरूपनिमित्तेन प्राणत्वधर्ममारोप्य 'अन्नं वै प्राणाः' तथाऽत्राप्युपचारो व्यवहारः । यद्येवमुच्यतां, के पुनरस्याधिकारिणः ? इति अस्येति = चैत्यवंदनसूत्रस्य पाठादिसत्यक्रियादेरिति । एतद्बहुमानिनो विधिपरा उचितवृत्तयश्च, न हि विशिष्टकर्मक्षयमन्तरेणैवंभूता भवन्ति क्रमोऽप्यमीषामयमेव, न खलु तत्त्वत एतदबहुमानिनो विधिपरा नाम, भावसारत्वाद्विधिप्रयोगस्य, न चायं बहुमानाभावे इति । पं०...स च एवंलक्षणो यत्रिवर्गरूपपुरुषार्थचिन्तायां धर्ममेव बहु-मन्यते, इहलोकपरलोकयोविधिपरो ब्राह्मणादिस्ववर्णोचितविशुद्धवृत्तिमांश्चेति, "विधिपरा' इति, विधि:-इहलोकपरलोकयोरविरुद्धफलमनुष्ठानं स पर:प्रधानं येषां ते तथा 'उचितवृत्तय' इति, स्वकुलाधुचितशुद्धजीवनोपाया इति, ननु ज्ञानावरणादिकम्र्मविशेष, उपहन्तरि सति सम्यक्चैत्यवंदनलाभाभावात् तत्क्षयवानेवाधिकारी वाच्यः, किमेतबहुमानादिगवेषणयेत्याह'नहोत्यादि' 'न' नैव 'हिः' यस्माद्, 'विशिष्टकर्मभयं' विशिष्टस्य-अन्तःकोटाकोटयधिकस्थितेः कर्मणो-ज्ञाना