________________
ललितविस्तरा-सटीका (१) 'अधिकृतसूत्रोक्तेनैव विधिना' (सहितस्य) आगमादिनिमित्तजन्य-नैमित्तिकस्यान्योपायाभावः, अधिकृतसूत्रोक्तगत एवकारार्थः, अत्र प्रथमविशेषणद्वारा क्रियागतदोषचतुष्टयमध्यतो दोषद्वयस्य परिहारस्तथावचोऽनुष्ठानस्य प्रतिपत्तिभवति. शास्त्रविहितक्रियाक्रमतो वैपरीत्येन भवन्ती क्रिया, अविधिदोषदुष्टा भवति, तथा शास्त्रेण देशकालभावोचिता प्रवृत्तियथा कथिता, तामुल्लध्य या क्रिया क्रियते साऽतिप्रवृत्तिनामकदोषदुष्टा भवति, अन क्रियादोषद्वयस्य परिहारो भवति तथा यथाशास्त्रविधानं सर्वतोचितप्रवृत्तिकरणरूपवचनाऽनुष्ठानं प्रतिपद्यते इति । १२) उपयुक्तस्येति द्वितीयविशेषणेन सूत्रार्थज्ञानसहितमनुष्ठानं सदनुष्ठानं भवितुमर्हति. क्रियागतशून्यदोष (क्रियागतोपयोगाभावरूप) स्य तथा अननुष्ठानरूपासदनुष्ठानस्य परिहारपूर्वकं तद्धेतुअमृतक्रिययोर्लाभः प्राप्यते । (३) आशंसादोषरहितस्येति (प्रतिबन्धकामावस्येति) विषयादिपौद्गलिकपदार्थवाञ्छारूपदोषरहितं अनुष्ठानं सदनुष्ठानं भवति, अनेन तृतीयविशेषणेन विषानुष्ठानस्य = ऐहिक-भोगफल-विषयककामनापूर्वकमनुष्ठानस्य, गरानुष्ठानस्य (पारलौकिक पौद्गलिक-सुखफल-विषयककामनापूर्वकानुष्ठानस्य) विषगरानुष्ठानरूपहेयानुष्ठानस्य तथा दग्धदोषस्य-पौद्गलिकभोगसुखकामनया सत्क्रियाफलं भस्मसात् कुर्वतः क्रियादोषस्य, परिहारो भवति । (४) सम्यग्दृष्टेरिति सम्यग्दृष्टिसम्पन्नस्यैव सम्यक्रिया भवति न मिथ्यादृष्टेः, यतः कर्मक्षयफलमुद्दिश्य सम्यग्दृष्टिना क्रियते । (५) भक्तिमत इति भक्तिमतः सम्यक् करणं भवति, भाववंदनकारणभूतसूत्राद्यालम्बनविषयकभक्तिबहुमानवतः-भक्तिमत इति, एतद्विशेषणपञ्चकाभाववतः सम्यक्करणं न भवति। अनधिकारित्वाद्, अनधिकारिणः सर्वत्रैव कृत्ये सम्यक्करणाभावात्, श्रावणेऽपि तहस्याधिकारिणो मृग्याः ? को वा किमाह ? एवमेवैतत्, न केवलं श्रावणे, कि तहि ? पाठेपि, अनधिकारिप्रयोगे प्रत्युतानर्थसम्भवात्, 'अहितं पथ्यमप्यातुरे' इति वचनप्रामा'ज्यात्, तथा 'अर्थी समर्थः शास्त्रेणापर्यु दस्तो धर्मेऽधिक्रियते' इति विद्वत्प्रवादः, धर्मश्चैतत्पाठादिः, कारणे कार्योपचारात्, यद्येवमुच्यतां के पुनरस्याधिकारिण इति, उच्यते ॥ पं०....'अर्षीत्यादि' अर्थी-धर्माधिकारी, प्रस्तावात्तदभिलाषातिरेकवान्, समर्थो-निरपेक्षतया धर्ममनुतिष्ठन्न कुतोऽपि तदनभिज्ञाद् बिभेति, शास्त्रेण-आगमेन 'अपर्युदस्तः' अप्रतिकृष्टः ।। टी.... एतद्विशेषणपञ्चकाभाववतः सम्यक्करणं न भवति यतोऽअधिकारित्वाभावोऽस्ति, सर्वनैव क्रियातत्सूनव्याख्याश्रावणपाठादिषु कृत्ये कर्तव्ये अनधिकारिण:-अधिकारशून्यस्य सम्यक्करणाभावः, श्रावणेऽपि तर्हि अस्य चैत्यवंदनसूत्रव्याख्याधिकारिणो मृग्या:-शोधनविषयाः कार्याः,
10