________________
अनितविकतरा-सटीज
आह-लब्ध्यादिनिमित्तं मातृस्थानतः सम्यक्करणेऽपि शुभभावानुषपत्तिरिति, टी०...(पूर्वपक्षः) सूत्रार्थज्ञानसहकृत-चैत्यवंदनक्रिया, सम्यग्रूपा भूत्वाऽवश्यं शुभभावजनिति यः सिद्धान्तो न्यस्तः स नो युक्तः, कथमिति चेत्, लब्ध्यादि-ऐहिकपारलौकिक-पौगलिकसुखकी
ादिकमुद्दिश्य मायातोऽपि क्रियमाणा, सूत्रार्थज्ञानपूर्वक-चैत्यवंदनक्रिया, सम्यग्रूपा क्रिया तावद् भवतु परन्तु शुभभावजनिका न, यतः कारणसत्त्वेऽपि कार्याभावरूपान्वयव्यभिचारः पुनरस्ति. ततः शुभभावकार्य प्रति सूत्रार्थज्ञानसहकृतचैत्यवंदनरूपसम्यक्क्रिया कारणमस्ति नवेति कारणवाविषयक: संशयोऽपि पादुर्भवति यतो युष्मंत्र्स्थापित-चैत्यवंदनसम्यक्क्रियायाः सत्त्वेऽपि शुभभावाभावः । न, तस्य सम्यक्करणत्वासिद्धेः। टी०...(उत्तरपक्षः)-लब्ध्यादिनिमित्तं मातृस्थानतः, तस्य-चैत्यवंदनस्य सत्यपि सम्पककरणे सम्यक्करणत्वमसिद्धमेवार्थाद् भोजनयशःकीर्तिपूजाप्रतिष्ठादिनाभरूपलन्धि-आदिस्पैहिकलोकफलस्पृहा, स्वर्गादिपारलौकिकफलकामना, तथा मायादि-दोषाः, सूत्रार्थविषयकज्ञानसत्त्वेऽपि चैत्यवंदनक्रियायाः सम्यक्करणत्वं प्रति प्रतिबन्धकाः सन्ति कार्य-प्रयोजकीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम्, सुभभावरूपकार्य, प्रति ऐहिकपारलौकिफलेच्छाया अभावः, प्रयोजकं (व्यवहितं) कारणमस्ति, तस्य प्रतियोगी यस्याभाव: स प्रतियोगी भवतीति न्यायेन ऐहिकादिषोलिककलेच्छादिर्भवति, तत्र प्रतियोगित्वादहिकादिफलेच्छामायादि-दोषाः प्रतिबन्धकाः; कार्यमानं प्रति प्रतिबन्धकाभावः प्रयोजककारणमस्ति, शृभभावरूपकार्य प्रति सूतार्थज्ञानसहकृतप्रतिबन्धकामाकविशिष्टचैत्यवंदनरूपसम्यक्रिया, कारणमिति कार्यकारणभावे, अन्वयव्यभिचाराभावप्रयुक्तकारणताविषयकसंशयाभावः, अथ सम्यक्करणत्व-सिद्धये प्रतिबन्धकबलाभिभावुका उत्तेजकविशेषा उच्यन्ते तयाहीति. तथाहि-प्रायोऽधिकृतसूत्रोक्तेनैव विधिनोपयुक्तस्याऽऽअंसादोषरहितस्य सम्यग्दृष्टेभक्तिमत एव सम्यक्करणं, नान्यस्य, पं...'प्रायोऽधिकृतसूत्रोक्तेनैव विधिनेति' अधिकृतसूत्रं-चैत्यवंदनसूत्रमेव, तन्त्र साक्षादनुक्तोऽपि तद्वयाख्यानोक्तो विधिस्तदुक्त इत्युपचर्यते, सूत्रार्थप्रपञ्चरूपत्वाव्याख्यानस्य, प्रायोग्रहणान्मार्गानुसारितीव्रक्षयोपशमवतः कस्यचिदन्यथापि स्यात्, - -- टी....अन प्रायोग्रहणान्मार्गाऽनुसारितीव्रक्षयोपशमवतः कस्यचिदन्यथाऽपि स्यात्-सूत्रोक्तविधेरजानेऽपि शुभभावोत्पत्तिः स्यात्, 'अधिकृत-सूत्र' चैत्यवन्दनसूत्रमेव तन सासदनुक्तोऽपि तद्व्याख्यानोक्तो विधिस्तदुक्त इत्युपचर्यते, सूत्रगभंगतार्थविस्ताररूपत्वाद् व्याख्यानस्य,