________________
मलितविस्तरा-सटीका चित्ततया प्रकृतस्थानवालम्बनोपयोगादन्योपयोगमहस्तस्माद् 'विपर्ययस्यापि अशुभभावस्यापि, शुभभावस्तावत्ततो दृश्यत एवेति सूचकोऽपि शब्दः, दर्शनाद्' उपलम्भाद्, टी०....(पूर्वपक्षः)-शभेतरभावाऽजनकत्वे सति शुभभावजनकं चैत्यवंदनमिति मते चैत्यवंदनक्रियायां कस्यचित् चित्तसम्मोहजन्यस्पष्टोपयोगाभावः, दोषाच्छादकत्वेन सांसारिकजन्महेतुत्वेन मातेव माता (माया) तस्याः स्थान-विशेषो मातृस्थानं, आदि शब्दाच्चित्तचञ्चलत्वेन प्रकृतस्थानवर्णाालम्बनोपयोमादन्योपयोगग्रहस्तस्माद् 'विपर्ययस्याऽपि' अशुभभावस्य (अपि शुभभावस्तावत्ततो दृश्यत एवेति सूचकोऽपिशब्दः,) 'दर्शनाद्' अनुभवात्-उपलम्भादिति । अर्थात् चैत्यवंदनरूपकारणसत्त्वे अनाभोगादिदोषेण लोकोत्तरशुभपरिणामरूप-कार्यानुत्पादरूपान्वयव्यभिचारेण चैत्यवंदनक्रिया, लोकोत्तरशुभपरिणामरूपकार्य प्रति कारणमस्तीति कार्यकारणभावविनिश्चयः कथं ? अत्रोच्यते-सम्यक्करणे विपर्ययाभावात्, पं०....'अत्र' शुभभावानेकान्तप्रेरणायां 'उच्यते' नायमनेकान्त इत्युत्तरमभिधीयते, कथं ? 'सम्यक्क रणे विपयंयाभावात्' यत्र तु 'सम्यक्करणे विपर्ययाभाव' इतिपाठस्तन प्रथमैव हेतो, टी०...(उत्तरपक्षः) हे वादिन् ! चैत्यवंदनस्याशुभभावकारणत्वं यथा वणितं तथा अशुभभावं प्रति चैत्यवंदनं कारणं नास्ति परंतु अनाभोगादि-दोषा एव कारणं, दोषैरेवाऽशुभो भावोजायते, यदि दोषरहितेन आगमोक्तविधिना चैत्यवंदनं क्रियेत तदा शुभ-भाव एव जायते नाऽन्यथा, अशुभभावं प्रति दोषसहितत्वेनाऽसम्यक् क्रियाऽस्ति, सम्यक् चैत्यवंदन-क्रियाकरणे सत्येव शभ-भावो जायते, शुभभावरूपकार्य प्रति सम्यक् चैत्यवंदनक्रियेव कारणं, सम्यककरणेऽशुभभावोत्पत्तिरूपविपर्ययस्याऽभावे, शुभभावविषयक-व्यभिचारसाङ्कर्याद्यपि नास्ति, एकान्तेन शुभभाव एव जायते, अस्तु सम्यक्करणे शुभाध्यवसायभावेन विवक्षित-फलं चैत्यवंदनं, परमकिञ्चित्करं तद्व्याख्यानमित्याशङ्क्याहतत्सम्पादनार्थमेव च नो व्याल्यारम्भप्रयास इति, न ह्यविदितितदर्थाः प्रायस्तत्सम्यककरणे प्रभविष्णव इति । पं०...'तत्सम्पादनेत्यादि' तत्सम्पादनाथ चैत्यवंदनसम्यक्करणसम्पादनार्थ । टी०...चैत्यवंदनविधेः सम्यक्करणत्वसम्पादनोद्देश्यकास्मच्चैत्यवंदनसूत्रविषयंकव्याख्या-रूप-प्रयत्न आरब्ध एव, अतः, संपादितचैत्यवंदन-सूत्रार्थज्ञाना ये पुरुषाः, ते चैत्यवंदनसूत्रार्थ-ज्ञान-सहकारेण चैत्यवंदन-क्रियां सम्यक्रियात्वे परिणमयितु समर्था भवन्ति नान्ये, अन्यच्च चैत्यवंदनसूत्रार्थज्ञानं तच्चैत्यवंदनसूत्र-व्याख्याधीनं सा व्याख्या भव्येषु तदर्थज्ञान-सम्पादनद्वारा चैत्यवंदनक्रियां सम्यग्रूपां जनयितु अनुगृह णाति, परं, तदर्थं चैत्यवंदनसूत्रतद्व्याख्यारम्भो नाकिंचित्करोऽपितु सफलोऽस्ति ।