________________
ललितविस्तरा-सटीका
टो.......प्रतिविधानं, (उत्तरपक्षः).....यन्निष्फलत्वं हेतुतयोपन्यस्तं तद् असिद्ध-असिद्धयभिधान हेतु दोष (हेत्वाभास) दूषितं, “यस्यान्यथाऽनुपपत्तिः प्रमाणेन न प्रतीयतेऽसौ (हेत्वाभासः) असिद्धः" (४८, प्र.न.त.आ.अ. परिच्छेदषष्ठः) "हेतुस्वरूपाप्रतीतिप्रयुक्ता प्रतीतव्याप्तिको हेतुरसिद्धः"
यथा शब्दोऽनित्यः (परिणामी) चाक्षुषत्वात्, अत्र चाक्षुषत्वरूपहेतुः, शब्दस्य स्वरूपं नास्ति परन्तु शब्दस्वरूपं श्रावणत्वमस्ति, चाक्षुषत्वहेतोरज्ञानात् व्याप्तेरप्रतीतेः, चाक्षुषत्वमसिद्धं तथाऽत्र निष्फलत्वरूपहेतुस्वरूपरूपमसिद्धमस्ति, यतश्चैत्यवन्दनस्य निष्फलत्वरूपं स्वरूपं नास्ति, परन्तु चैत्यबन्दनस्य सफलत्वंस्वरूपमस्ति, यत् पूर्वोक्तं निष्फलत्वादिति हेतुरसिद्धिनामकदोषेण दूषितोऽस्ति, (स्वरूपासिद्धो हेत्वाभासो यथा शब्दो गुणश्चाक्षुषत्वात् रूपवत्, अन्न चाक्षुषत्वं शब्दे नास्ति, शब्दस्य श्रावणत्वात्, स्वरूपासिद्धये दोषाय, अनित्यः शब्दश्चाक्षुषत्वात्. शब्द-मिणि उपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् ) तन्न, आगमेऽपि कथितं च-चैत्यवंदनरूपप्रशस्तक्रियाद्वारा सम्यग्शुभभावः प्रकृष्टशुभाऽध्यावस्यायः प्रकर्षण जायते, तस्मात् प्रकृष्टशुभाऽध्यवसायतः कर्मक्षयः, तत:-कर्मक्षयतः सर्वं मोक्षपर्यन्तरूपं कल्याणं जीव: प्राप्नोत्येव । यत: चैत्यवंदनं सफलं, लोकोत्तरशुभपरिणामजनकत्वात, जिनवन्दनवत् , यद्यद्, लोकोत्तरपरिणामजनकं तत् सफलं यथा जिनादिवन्दनम, यद यद, न सफलंन तत,लोकोत्तरपरिणामजनकं यथा कण्टकशाखामर्दनम अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकिलिङगम्, तथाचायं-सफलताव्याप्य-लोकोत्तरशुभपरिणामजनकं यथा जिनादिवंदनम् तथा-सफलताव्याप्यलोकोत्तरपरिणामजनक, इदं चैत्यवंदनम्, तस्मात्तथेति-सफलताव्याप्यलोकोत्तर-परिणामजनकत्वात्, चैत्यवंदनं सफलं, हेतोः साध्यमिण्युपसंहरणमुपनयः, लोकोत्तरपरिणामजनकत्वं चैत्यवंदनेऽस्ति, 'साध्यधर्मस्य पुनर्निगमनम्' तस्मात्लोकोत्तरपरिणामजनकत्वात्. चैत्यवंदनरूपे धमिणि (पक्षे) सफलत्वसाध्यमस्ति । स च परिणामो यथासंभवं-आभ्यन्तर-ज्ञानावरणीयादि-स्वभावकर्मक्षयक्षयोपशमोपशमफलः, कर्मग्रहणहेतुरूपाध्यवसायविरुद्धत्वात् तच् चैत्यवंदनपरिणामस्य, ततो, अर्थात् चैत्यवंदनं लोकोत्तर-कुशलपरिणामजनन-द्वारा सकलकर्मक्षयजन्यमोक्षफलजनकं, अतश्चैत्यवंदनसफलताहेतुक-चैत्यवंदन-विषयकव्याख्यानस्य सफलत्वात्, सकलव्याख्येयार्थवत्तया च तच्चैत्यवन्दन-व्याख्यानस्य पुरुषोपयोगि-अदृश्याभ्यन्तरफलकत्वात्, तद्व्याख्यानस्यारम्भोऽवश्यं कर्तव्यः यत आरम्भव्यापकं फलं, अतश्चैत्यवंदनव्याख्यानपरिश्रमः सफल इति. आह-नायमेकान्तो, यदुत-ततः शुभ एव भावो भवति, अनाभोगमातृस्थानाविपर्ययस्थापि दर्शनादिति, पं०...'एकान्त' इति एकनिश्चय:, 'अनाभोगेत्यादि' अनाभोग:--सम्मूढचित्ततया व्यक्तोपयोगाभावो, दोषाच्छादकत्वात्सांसारि (क) जन्महेतुत्वाद्वा मातेव माता 'माया' तस्याः स्थानं विशेषो मातृस्थानं, आदिशब्दाच्चल