________________
ललितविस्तरा-सटीका
7
.
टीका.... (पूर्वपक्षः)...मंगलाद्यनुबंधचतुष्ट्रयनिरूपणे सति, चैत्यवंदन-व्याख्या-परिश्रमः (पक्षः)साफल्याभाववान् (साफल्याभावः साध्यः) चैत्यवन्दनस्यैव निष्फलत्वात् (हेतुः) ततः पुरुषोपयोगि भोजनादि-दृश्यबाह्यफलानुपलब्धेश्चैत्यवंदनमपि निष्फलमेव, किम्पुनश्चत्यवंदनविषयक-व्याख्यान परिश्रमः?, स तु सुतरां निष्फल एवेति, यन्निष्फलं तन्नारम्भणीयं यथा कण्टकशाखामर्दनम्, तथा च चैत्यवन्दनव्याख्यानमिति व्यापकानुपलब्धिः ।
___ व्यापकानुपलब्धिहेतो घंटना = यथा अस्मिन् प्रदेशे पनसो नास्ति वृक्षादर्शनात्, अन्न पनस इति व्याप्यम्, वृक्षः, अविरुद्धव्यापकोऽस्ति, यदि व्यापक: स्यात्तदा व्याप्येन भाव्यम्, व्यापकवृक्षाभावे व्याप्यपनसाभावः, अविरुद्धव्यापकवृक्षानुपलब्धिरत्र हेतुरस्ति सामान्याभावे विशेषाभावः, ततः पनसरूपं प्रतिषेध्यं सिद्धयति, तथैव चैत्यवंदन-व्याख्यान-परिश्रम-निष्ठसफलता नास्ति, चैत्यवन्दनस्य निष्फलत्वात्, चैत्यवंदन-निष्फलताहेतुः, व्यापकानुपलब्धि-रूपोऽस्ति तथाहि चैत्यवंदनव्याख्यापरिश्रम-सफलतेति व्याप्यम्, चैत्यवंदन-सफलतेति, अविरुद्धव्याप्यकमस्ति, यदि चैत्यवंदनसफलतारूप-व्यापकस्य सत्त्वे,
चैत्यवंदनव्याख्यानपरिश्रमसफलतारूपं व्याप्यं स्यात्, परन्तु चैत्यवंदनसफलतारूपव्यापकानुपलब्धेः सत्त्वे, चैत्यवंदनव्याख्यानपरिश्रम-सफलतारूपव्याप्यानुपलब्धिः स्यात्, एवं प्रतिषेध्येन सहा विरुद्ध-व्यापकीभूत-चैत्यवंदन-सफलतानुपलब्धिरूपहेतुसत्त्वे चैत्यवंदन-व्याख्यानपरिश्रम-सफलतारूपं प्रतिषेध्यं सिद्धयति. (प्रमाणनयतत्त्वालोकालंकारे तृ. प. प्रतिषेध्येनाविरुद्धानां स्वभावव्यापकः.......अनुपलब्धिरिति सू.-६५....) निष्फलत्वादित्यसिद्धं, प्रकृष्टशुभाध्यवसायनिबन्धनत्वेन ज्ञानावरणीयादिलक्षणकर्मक्षयादिफलत्वाद्, उक्तं च
"चैत्यवंदनतः सम्यग शभो - भावः प्रजायते। तस्मात्कर्मक्षयः सर्व, ततः कल्याणमश्नुते ॥१॥ ॥इत्यादि।"
प.......'निष्फलत्वादित्यसिद्ध' इति:-हेतुस्वरूपमात्रोपदर्शनार्थः, ततो यनिष्फलत्वं हेतुतयोपन्यस्तं, तद् असिद्धमसिद्धयभिधानहेतुदोषदूषितं, कुत इत्याह 'प्रकृष्टेत्यादि' अयमन भावो-लोकोत्तरकुशलपरिणामहेतुश्चैत्यवन्दनं, स च परिणामो यथासम्भवं ज्ञानावरणीयादिस्वभावकर्मक्षयक्षयोपशमोपशमफलः, कर्मादानाध्यवसायविरुद्धत्वातस्य, ततः कृत्स्नकर्मक्षयलक्षणपरमपुरुषार्थमोक्षफलतया चैत्यवन्दनस्य निष्फलव्याख्येयार्थविषयतया तव्याख्यानस्यानारम्भाऽऽप्रसञ्जनमयुक्तमिति ।