________________
ललितविस्तरा-सटीका
तथापि-सामस्त्येन व्याख्यानविषयकसामोभावे सत्यपि, अल्पमतिना (गुरुमत्यपेक्षमा) माया चैत्यवन्दनसूत्रस्य यावदर्थजातं गुरोः सकाशात् (सन्निधिमाश्रित्य) विज्ञातं ताबदेव-विज्ञातप्रमाणमेव (अविज्ञातस्य वक्त मशक्यत्वात्) ब्रवीमि अहं-कर्ता वच्मीति, अल्पमतिनेत्यत्रेदं बोध्यं = गुरोः सकाशात् केचिदधिकबुद्धयः, दीपादिवत् केचित् समानबुद्धयः केचिदल्पबुद्धयः इति बुद्धिवैभवभेदापेक्षया त्रयो भेदाः सन्ति, तत्र वज्रस्वाम्यादिवद् गुरोः शृण्वन्तोऽधिकबुद्धिबलिनः, (समल) ध्यामलदीपात्-परहेतुजन्यदीपात्, स्वहेतुजन्य-विशिष्टक्षयोपशमरूपहेतुजन्यमण्यादिदीपवत् सदा ज्वलद्दीपवन्निर्मलाः, केचिद्गुरुबुद्धिसमानबुद्धिशालिनः, अहन्तु अल्पमतित्वाद् गुरुनिरूपितादपि हीनमेवार्थजातं विज्ञातवानिति, तदेव ब्रवीमि ॥३॥ ये सत्त्वा:-संसारिणो जीवा जैनशासनाऽभिप्रेतकर्मणां-ज्ञानावरणादिकपोद्गलिकादृष्टानां पारवश्येन, मत्तोऽपि-मत्सकाशादपि (अहमिति ब्यक्तिविशेषतोऽपि,) जडबुद्धयः-स्थूलबुद्धयः सन्ति तेषां-जडबुद्धीनां हिताय-बोधरूपो भावोपकारो भवतु इति अनुग्रहाय कथयतः-विवरणं कुर्वतो मे, अधिकसदृशबुद्धिकयोऽस्तु प्रमोदमाध्यस्थ्यविषयतया अनुपकारात् मे-मम परिश्रमो-व्याख्यानरूपः सफल:-बोधरूपोपकारफलवान् अत्रानन्तर-प्रयोजनं-साक्षात्प्रयोजनं-फलं दर्शितम् ग्रन्थकारस्य सत्त्वोपर्युपकाररूपं, श्रोतुरर्थज्ञानप्राप्ति वर्तते इतिः अनेदं अनुबन्धचतुष्टयं विज्ञेयम्, (१) महावीरप्रभोः प्रणामरूपं मङगलं । (२) चैत्यवन्दनसूत्राणामर्था विषयरूपेणाभिधेयाः । (३) सत्त्वहितं प्रयोजनं । (४) सूत्रार्थयोः प्रतिपाद्यप्रतिपादकसम्बन्धो ज्ञेयः यतोऽत्र प्रेक्षावन्तः प्रवर्तन्ते एवेति ।
॥४॥
अत्राह-चिन्त्यमत्र साफल्यं चैत्यवन्दनस्यैव निष्फलत्वात् इति, अत्रोच्यते..... पंजिका -'अन' मंगलादिनिरूपणायां सत्या 'आह' प्रेरयति, 'चिन्त्य' नास्तीत्यभिप्रायः, 'अन्न' चैत्यवंदनव्याख्यानपरिश्रमे, 'साफल्यं सफलभावः, कुतः इत्याह-'चैत्यवंदनस्यैव' 'निष्फलत्वात्' अनवशब्दोऽप्यर्थे, ततः परुषोपयोगिफलानपलब्धेश्चैत्यवंदनमपि निष्फलमेव, कि पुनस्तद्विषयतया व्याख्यानपरिश्रमः ? ततो यनिष्फलं तन्नारम्भणीयं, यथा कण्टकशाखामईनं, तथा च चैत्यवन्दनध्याख्यानमिति व्यापकानपलब्धि: 'इतिः' परवक्तव्यतासमाप्त्यर्थः । अन्न 'उच्यते' प्रतिविधीयते ।।