________________
मलितविस्तरा - सटीक
सुधर्मपारम्पर्येण त्रिसंख्याधिकसप्ततितमे पट्टे पञ्जाबोद्धार करा,
विजयानन्दसूरयोऽभवन् ॥६॥
तत्पट्ट भूषणवरा, विजयकमलसूरिप्रवरा जाताः । तत्पट्टाम्बररवयः, कवयो लब्धिसूरयोऽभवन् ॥७॥ तत्पट्टाब्जे हंसा, विजयभुवनतिलकसूरयो जाताः । तच्छिष्यसूरिणेयं, भद्रकरेण टीका - कृता ॥८॥
=
टीका - " चैत्यवन्दनसूत्रस्य व्याख्येयमभिधीयते” – जैनशासने सर्वदा सकलसङघेन क्रियमाण प्रतीतस्य चैत्यवंदनसूत्रस्य व्याख्या = अर्थविशेषरूपं विवरणं, इयं - अनन्तरमेव वक्ष्यमाणस्वरूपा, अभिधीयते-प्रोच्यते (अत्रेदं बोध्यम् - अस्या व्याख्याता कीदृशो निःस्पृहः यत् 'मया - अस्माभिः - हरिभद्रेणेत्यादि - शब्दा लेखनशक्तिसत्त्वेऽपि 'का नाम निःस्पृहतेति' प्रश्नेत पश्यतु लोकः, निःस्पृह शिरोमणि श्री हरिभद्रसूरे निःस्पृहतायाः सिद्धान्तरूपादशं गृह णातु) किं कृत्वाऽभिधीयते ? इत्याह 'प्रणम्ये' ति-प्रकर्षेण नत्वा, कं प्रणम्य ? इत्याह 'महावीरें' महत्त्वाऽवच्छिन्न- वीरता - विशिष्टविशेषणपक्षे, अन्तरङगारिजयेन सर्वजनगतोपद्रवादि निवारकत्वेन दानशीलतपोभावादिसमग्रधर्मवीरत्वेनापायापगमातिशयो द्योतितः, विशेष्यपक्षे-चरमतीर्थपति महावीरनामानं ज्ञातनन्दनमिति पुनः कीदृशं तं ? इत्याह 'भुवनालोकं' विशेषसामान्याऽवच्छिन्नस कल प्रमेयमात्रं केवलज्ञानदर्शनाभ्यां जानन्तं पश्यन्तं ( भुवनप्रकाशकारकं भुवनदर्शनीयं ) सर्वज्ञं सर्वदर्शिनं महावीरं (अनेन विशेषणेन महावीरस्य परमात्मनो ज्ञानातिशयो दर्शितः) पु० की. महावीरं ? इत्याह 'जिनोत्तमं ' जिनेषु - के वलिषूत्तमं प्रधानं तीर्थंकरत्वेन सातिशयत्वेन, ( अनेन विशेषणेन पूजातिशयवचनातिशयो दर्शिती इति ॥ १॥
कृत्स्नत्वेनाकृत्स्नत्वेन व्याख्याविभागो भवति, तन्मध्यात् कात्र्त्स्न्येन व्याख्या विधानेऽशक्तत्वमा विकरोति व्याख्यानाऽऽचार्यः, शब्दसन्दर्भरूपसूत्रगताः, ये अनन्ताः - अनन्तनामकसङङ्ख्या विशेषमिताः गमाः = अर्थज्ञानाय पद्धतिविशेषाः, पर्यायाः परिवर्तन - शीलत्वेन उदासादयः शब्दभेदाः, अनुवृत्तिरूपाः स्वपर्यायाः श्रुतानुसारिज्ञानत्वेन निर्विभाज्यांशापेक्षया अनन्ताः, पररूपाभवनस्वभावाः व्यावृत्तिरूपा परपर्याया अनन्ताः, ते सन्ति विद्यन्तेऽर्थात् जिनागमे सर्वं सूत्रं पूर्वोक्तस्वरूपवदेव, यतोऽस्य सूत्रस्य सामस्त्येन व्याख्यां कत्तु क ईश्वरः - सामर्थ्यवान् ? अर्थाच्चतुर्दशपूर्वरान् वर्जयित्वा कोऽपि समर्थ:, जिनागमसूत्रान्तर्गतं चैत्यवन्दनसूत्रमतोऽशक्यं सामस्त्येन तस्य व्याख्यानमिति || २ ||
शास्त्रकारो हरिभद्रसूरि : स्वाशक्यां सामस्त्येन व्याख्यां विमुच्येतरपक्षमाश्रयते
श्लोकद्वयकथनद्वारा
4