________________
ललितविस्तरा - सटीक
'यावत्' यत्परिमाणं 'तथापि' कृत्स्नव्याख्यानाशक्तिलक्षणो यः प्रकारस्तस्मिन् सत्यपि, 'विज्ञातं ' अवबुद्धम्, 'अर्थजातम्' अभिधेयप्रकारस्तत्समूहो वा प्रक्रमाच्चैत्यवंदनसूत्रस्य 'मया' इत्यात्मनो निर्देशे 'गुरोः - व्याख्यातुः 'सकाशात्' संनिधिमाश्रित्य कीदृशेनेत्याह- अल्पमतिना' अल्पा तुच्छा गुरुमत्यपेक्षया मतिः बुद्धिर्यस्य स तथा तेन 'तावदेव' विज्ञातप्रमाणमेव, अविज्ञातस्य वक्तुमशक्यत्वात्, 'ब्रवीमि' वच्मि 'अहं कर्त्तेति । अल्पमतिनेत्यनेन चेदमाह - कदाचिदधिकधीगुं रोः शृण्वंस्ततोऽधिकमपीदमवैति - ध्यामलादपि दीपात्तु, निर्मलः स्यात्स्वहेतुत' इत्युदाहरणात् तत्समधीश्च तत्समं अहं त्वल्पमतित्वाद्गुरुनिरूपितादपि हीनमेवार्थजातं विज्ञातवानिति, तदेवब्रवीमि ||३|| 'ये' इति अनिरूपितनामजात्यादिभेदाः 'सत्त्वाः प्राणिनः कर्म्मवशतो' ज्ञानावरणाद्यदृष्टपारतन्त्र्यात् 'मत्तोऽपि ' मत्सकाशादपि, नान्यः प्रायो मत्तो जड़बुद्धिरस्तीति सम्भावनार्थोऽपि - शब्द: 'जडबुद्धयः' स्थूलबुद्धयो, विचित्रफलं हि कम्मं ततः किं न सम्भवतीति, 'तेषां' जडबुद्धीनां 'हिताय' पथ्याय 'गदतो' विवृण्वतः 'सफलो' बोधलक्षणतदुपकारफलवान्, अधिकसदृश बुद्धिकयोस्तु प्रमोद माध्यस्थ्यगोचरतयाऽतोऽनुपकारात् 'मे' मम 'परिश्रमो' व्याख्यानरूपः । इह चेष्टदेवतानमस्कारो मङगलं, चैत्यवन्दनार्थोऽभिधेयः, तस्यैव व्याख्यायमानत्वात् कर्तुं स्तथाविधसत्त्वानुग्रहोऽनन्तरं प्रयोजनं श्रोतुश्च तदर्थाधिगमः परम्परं तु द्वयोरपि निःश्रेयसलाभ:, अभिधानाभिधेयलक्षणो व्याख्यानव्याख्येयलक्षणश्च सम्बन्धो बोद्धव्यः, इति मङगलादिनिरूपणसमाप्त्यर्थः ॥४॥
टीकाकार- मंगलाचरणम् -
श्रीवर्धमानं प्रभुवर्धमानं वन्दे समेन्द्रः कृतकीर्तिगानं,
श्रीवर्तमानं परमेष्ठिताद्यंः, तमो-दिनेशं चरमं जिनेशम् ॥१॥ श्री गौतमं लब्धिनिधि गणेशं सुधर्माभिधानं च तथा जनेशम् ।
सूरीन् समस्ताननुयोगिनश्च, श्री जैनधर्मस्य महत्त्वकारान् ॥२॥ तत्कालीन समस्तवेदगतचिद्, - वेदान्तपारङ्गतः,
नव्यज्ञानरसेन
जीयाच्छ्रीहरिभद्रसूरिसविता सद्दर्शनं प्राप्तवान् ॥३॥ हमामयः श्रीमदब्बरं यवनसम्राजं ।
ब्राह्मणवर्य - शौर्य मरितः,
सत्यप्रियः सज्जनः ।
जैनगणिनी श्रीयाकिनी - मातृतः,
चकाराऽहिंसामयं सूरिसम्राट् जयति भारते ॥४॥ लघुहरिभद्रबिरुदो, नव्यन्यायान्नवं युगं ससर्ज ।
सर्वत्र जैनतत्त्वेषु, जयति वाचकयृशोविजयः ॥ ५ ॥
3