________________
ललितविस्तरा - सटीक
पञ्जिकाकार - मंगलाचरणम् -:
नत्वाऽनुयोगवृद्धेभ्यश्चैत्यवन्दनगोचराम् ।
व्याख्याम्यहं क्वचित्किञ्चिद्वृत्ति ललितविस्तराम् ॥१॥ यां बुद्धवा किल सिद्धसाधुरखिलव्याख्यातृचूडामणिः,
सम्बुद्धः सुगतप्रणीत समयाभ्यासाच्चलच्चेतनः । यत्कर्तुः स्वकृतौ पुनर्गुरुतया चक्रे नमस्यामसी,
को ह्येनां विवृणोतु ? नाम विवृति स्मृत्ये तथाऽप्यात्मनः ॥ २ ॥ शास्त्रान्तरदर्शनतः, स्वयमप्यूहाद्गुरूपदेशाच्च ।
क्रियते मयैष दुग्गंम कतिपयपदपञ्जिकारम्भः ॥३॥ ( युग्मम् )
तत्नाचार्यः शिष्टसमाचारतया विघ्नोपशमकतया च मङगलं, प्रेक्षावत्प्रवृत्त्यर्थमभिधेयं सप्रसङगं, प्रयोजनं, सामर्थ्यंगम्यं सम्बन्धं च वक्त काम आह
पञ्जिका -: तत्र 'प्रणम्य' प्रकर्षेण नत्वा 'भुवनालोकं भुवनं जगत्, आ- इति विशेषसामान्यरूपविषयभेदसामस्त्येन लोकते केवलज्ञानदर्शनाभ्यां बुध्यते यः स तथा तं, कमेवंविधमित्याह 'महावीर' अपश्चिमतीर्थंपति 'जिनोत्तमं' अवध्यादि-जिनप्रधानं 'चैत्यवन्दन सूत्रस्य' प्रतीतस्य 'व्याख्या ' विवरणम् 'इयं' अनन्तरमेव वक्ष्यमाणा 'अभिधीयते' प्रोच्यत इति ||१|| सम्प्रत्याचार्यः प्रतिज्ञातव्याख्याकृत्स्नपक्षाक्षमत्वमात्मन्याविष्कुर्व्वन्नाह
अनन्ता - अनन्तनामकसंख्याविशेषानुगता गमा अर्थ मार्गाः पर्यायाश्चोदात्तादयोऽनुवृत्तिरूपाः पररूपाभवनस्वभावाश्च व्यावृत्तिरूपा यत्र तत्तथा, 'सर्वमेव' अंगगतादि निरवशेष 'जिनागमे' अहंच्छासने 'सूत्र' शब्दसन्दर्भरूपं 'यतो' यस्माद्धेतोस्तत इति गम्यते 'अस्य' सूत्रस्य 'कात्र्त्स्न्येन' सामस्त्येन ‘व्याख्यां' विवरणं 'कः' कतु' विधातुम् 'ईश्वर : ' समर्थः ? अयं हि किंशब्दोऽस्ति क्षेपे, स किं सखा ? योऽभिद्रुह्यति, अस्ति प्रश्ने, कि ते प्रियं करोमि, अस्ति निवारणे, किं ते रुदितेन, अस्त्यपलापे, किं ते धारयामि, अस्त्यनुनये कि ते अहं करोमि, अस्त्यवज्ञाने, कस्त्वामुल्लापयते, इह स्वपलापे, नास्त्यसौ य:- सूत्रस्य कात्स्न्र्त्स्न्येन व्याख्यां कत्तु समर्थ इत्यभिप्रायोऽन्यत्र चतुर्द्द शपूर्वधरेभ्यो यथोक्त- 'शक्नोति कत्तु श्रुतकेवलिभ्यो, न व्यासतोऽन्यो हि कदाचनापी' ति, जिनागमसूत्रान्तर्गतं च चैत्यवंदनसूत्रमतोऽशक्यं कृत्स्नव्याख्यानमिति ॥ २ ॥ इत्थं कृत्स्नव्याख्यापक्षाशक्तावित रपक्षाश्रयणमपि सफलतया वक्त कामः श्लोकद्वयमाह -:
2